________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् विजयदेवसूरीन्द्रः कनकविजयाह्वयम् । उपाध्यायपदं दत्वा तदिदमवदन्मुखात् ॥ ५८ ॥ इदमिति किं तदाह
[ त्रिभिविशेषकम् । कनकविजयाख्योऽयमुपाध्यायशिरोमणिः । समक्ष सर्वसंघस्य नानादङ्गागतस्य हि ॥१९॥ निशम्येति ततः संघाः सर्वदेशनिवासिनः । ववन्दिर उपाध्यायकनकविजयाह्वयम् ॥६॥ धर्माशिषं तदानन्दात् श्रीसद्यस्य सुखावहाम् । उपादिशदुपाध्यायः कनकविजयायः ॥६१॥ तद्यथा-अर्ह सिद्धवराचार्योपाध्यायाः साधुसंयुताः । श्वाश्रेयसं सदा कुर्युः पश्चैते परमेष्टिनः ॥ श्रुत्वोपदेशं ते सङ्घा उदतिष्ठस्तदग्रतः । तेषां पाणौ च रूप्याणि ददौ लालीः स्वलीलया ॥ सर्वान्सडांस्ततो लालीः प्रभोज्याद्भुतभोजनम् । विससर्जातिसत्कारपरिष्कारादिदानतः ।। लाली श्राद्धी चकारैवमुपाध्यायपदोत्सवम् । कनकविजयो जीव्यात् स चिराय यदीयकम् ॥
-इति श्रीकनकविजयस्य उपाध्यायपदम् ॥ अथास्ति भरतक्षेत्रे सर्वस्वर्गसुखादिकम् । निर्विपत्तिकसम्पत्तिपुरमीडरसत्पुरम् ।। ६६ ।। कल्याणमल्लभूपालः सर्वकल्याणकारणम् । निरुपद्रवसाम्राज्यं भुनक्ति व्यक्तशक्तितः ॥६७॥ व्यवहारी सदाहारीश्वरेश्वरपुरस्कृतः । तत्र भावित्रभृगानः श्रेष्ठी वसति नाकरः ॥ ६८ ॥
(नाकरः श्रावकोऽवसत्-इति वा पाठः) सहानादिगुणान् यस्य त्रिदशैः सहजूरपि । वक्तिरन्यो न किं वक्तिः सहजूरस्ति तत्सुतः ॥
(वक्तिरन्यस्य का वार्ता सहस्तत्सुतोऽभवत्-इति वा पाठः) विगतानः कदाप्याजूः कारायां नुर्न कस्यचित् । यस्य प्रभावतो लोके सहजः स विराजते ।।
६४--अतिसत्कारेण परिष्कारादीनामलङ्कारादीनां दानं अतिसत्कारपरिष्कारदानं तस्मादतिसत्कारपरिष्कारादिदानतः । अलकारस्तु भूषणं परिष्काराभरणे चेति हैमः । परिष्कार इत्ययं मूर्धन्यकवर्गाद्यमध्यः ।
६८-तत्र श्रीमति ईंडरपुरे श्रेष्ठी नोकरो वसति । कथंभूतः ? व्यवहारी । पुनः कथं ? सदा निरन्तरं हारीश्वरेश्वरपुरस्कृतः-हारयो मनाहरा ये ईश्वरा धनिनस्तेषामश्विराः स्वामिनस्तेषु पुरस्कृतो यस्स । तथा चारुहारिरुचिरं मनोहरमिति हैमः । पुनः कथंभूतः ? भावित्रभृद्गात्रः कल्याणयुक्तदेह इत्यर्थः ।
६९-तत्सुतः नाकरसुतः । जूराकाशसरस्वत्यां पिशाच्या जवनेऽपिचेति महेश्वरः ।
७०-यस्य प्रभावतो लोके कदापि कदाचिन्ननरस्य कारायां बन्दी न आजूः न हठात्क्षेपः। कथंभूतः सहजूः विगतात:-विगता आजूः हठात्क्षेपो यस्मात्स विगतात ः। अनेन स्वेच्छाचारित्वं दर्शितम् । सहाई स्वेच्छयैव स्वस्यान्येषां च ऋणादानादिन्यायानां कार्येषु प्रवर्तते । परं नान्ये
Aho I Shrutgyanam