________________
श्रीवल्लभोपाध्यायविरचितं
[ नवमः दानयस्य पराभूताः प्रस्रवद्भिः करात्सदा । असूयया हि मातङ्गाः स्वन्त्यद्यापि सप्तधा ॥७२॥ क्षिपन्ति मस्तके रेणून सहन्ते चातपादिकम् । लभन्ते नैव दातृत्वं सोऽभूदात्रुत्तमो भुवि ।७२।। अथायाद्विहरंस्तत्र विजयदेवसद्गुरुः । सहजूममुखाः श्राद्धा अपि तं वन्दितुं गताः ।। ७३ ॥ अभिवन्द्योत्सवं कृत्वाऽन्तरा नगरमानयन् । विजयदेवमूरीन्द्रं श्रावकास्त उपाश्रये ॥ ७४ ॥ (अभिवन्द्योत्सवं कृत्वाऽन्तरा नगरमानयत् । विजयदेवमूरीन्द्रं सहजूः स उपाश्रये-पाठान्तरम्) धर्मोपदेशमाकये नत्वा चोत्थाय सोऽकरोत् । पुष्पाणीव सुरूप्याणि महाजनकरास्पदे ॥७॥ अथान्यदा समुत्पनविवेकाधिकतेरितः । इति व्यज्ञपयद्भक्त्या सहजूः श्रावको गुरुम् ॥७६॥ इतीति किं तदाहजानासि यं स्वं शिष्यं सर्वांगीणगुणाश्रयम् । श्रीगुरो प्रापयद्राक्तं ाचार्यपदश्रियम् ।। विजयदेवसूरीन्द्रस्ततः माहेति सं प्रति । अस्मिन् कायें करिष्यामि ध्यानमभ्युदयावहम् ॥७८॥ ततस्तं सहजः प्राह प्रयतस्व गुरो द्रुतम् । ध्यानाहै वीक्ष्यते वस्तु यत्तद् ब्रूहि नयामि तत् ॥७९॥ अस्मिन्नवसरे श्रीमत्सावलीग्राम उत्तमः । वर्तते सावली तस्य प्रबलीष्टे महीपतिः ॥८॥ परीक्षककुलव्योमव्योमरत्नसमद्युतिः । रत्नं रत्नसिंहारव्यः श्रेष्ठी वसति विश्रुतः ॥८॥ अनेकजीवहिंसाया निवारणकृतोद्यमः । रत्नसिंहोऽलिखत्पत्रं सूर्याहानाय हर्षितः ॥८२॥ तद्यथा-स्वस्तिश्रोशोभितं शश्चन्नत्वा श्रीपरमेष्ठिनम् ।
ईडते पण्डिता यत्स्वस्तभातीडरसत्पुरम् (-पत्तनमिति वा पाठः) ॥८॥ विजयदेवसूरीन्द्रं वसन्तं तत्र साम्पतम् । प्रणत्य रत्नसिंहोऽयं श्राद्धो विज्ञपयत्यय ॥४॥ श्रीपूज्यराज साधन्तश्रीसमाजविराजितः । साबलीग्राममागच्छ सर्वजीवहिताय हि ॥८॥ तं हठात् तेषु प्रक्षिपन्तीति भावः । विष्टिराजूरित्यारः । यद्यप्याजूनरके हठात क्षेपस्य नाम, तथाप्यत्र सामान्याविशेषयोरभेदेन विवक्षणात् अन्यत्रापि हठात्क्षेप नाम न दुष्टम् ।
७१-सप्तधा सप्तभिः प्रकारैः।
८०-सा सप्ताङ्गराज्यलक्ष्मीस्तया बलते प्राणितीत्येवं शीलः साबली । सप्ताङ्गराज्यलक्ष्मीसमृद्ध इत्यर्थः । बल प्राणने भ्वादिरात्मनेपदी । अत एवं प्रबली प्रकृष्टं षड्विधत्वात् बलं सैन्यं प्रबलं तदस्यास्तीति प्रबली । अत इनि ठनौ इति । इनिः षड्विधसैन्ययुक्त इत्यर्थः । महीपतिः राजा तस्य साबलीमाम्यस्य ईष्टे राज्यं करोतीत्यर्थः । तस्येत्यत्र अधिगर्थदयेशां कर्मणीति शेषत्वेन विवक्षिते कर्मणि षष्ठी । अत्र शेषो नाम कर्मण अविवक्षासम्बन्ध इत्यर्थः । ततः शेषस्य सम्बन्धस्य भावः शेषत्वं सम्बन्धत्वमित्यर्थः । तेन विवक्षिते कर्मणि षष्ठी ।
८५-साधतानां साधूनां श्रीः शोभा तस्याः समाजेन सङ्घातेन विराजितः साधन्त. श्रीसमाजविराजितः ।
Aho I Shrutgyanam