________________
श्रीवल्लभोपाध्याय विरचितं
[ नवमः
शत्रुञ्जादितीर्थानां यात्राश्चक्रे तयाऽद्भुताः । व्यययित्वाऽव्ययीभावो भेजे द्रव्येण तद्गृहे ॥४५॥ अथान्यदा समुत्पन्नगुरुरागा गुरौ गुणैः । क्षणदा क्षणदायां सा चित्त एवं व्यचारयत् ||४६ || एवमिति किं तदाह
५४
प्रातर्विज्ञपयान्येवं प्रणम्य चरणाम्बुजम् । विजयदेवसूरीन्द्रं सर्वसङ्घसमक्षकम् ॥ ४७ ॥ उपाध्यायपदं देहि त्वच्छिष्यस्याऽस्य भास्वतः ।
कनकविजयाख्यस्य तद्गुणैर्यत्तु शालिनः ॥ युग्मम् । जाते प्रभात आयात्सा सूरेः पार्श्व उपाश्रये । रात्रिं चिन्तितसद्वार्तां नत्वेत्यारव्यच्च सद्विरा || इतीति किं तदाह
प्रयच्छ पूज्यराज त्वमुपाध्यायपदश्रियम् । कनकविजयाख्यस्य पूरयेति मदीहितम् ॥५०॥ अङ्गीकृत्य वचस्तस्यास्सूरिरेवमुपादिशत् । लालीस्त्वमसि धर्माली किं न कुर्वे त्वदीहितम् ॥ यतश्च - लाति लक्ष्म्याः फलं धर्मंपुंरत्नं लीयतेऽपि च । उभयोर्वर्णयोर्योगे लालीरिति समासतः॥ तन्मनोरथसिद्धयर्थं तत्समक्षं निरैक्षत | मुहूर्तमुत्तमं सूरिरुपाध्यायपदोचितम् ॥ ५३ ॥ तत उत्थाय साध्यायात्स्वगृहे स्वगृहे श्रियः । तदैव सर्वदेशानां संघानाह्वयति स्म च ॥५४॥ संघा अहम्मदावादमुखङ्गवासिनः । उपरिष्टान्मुहूर्तस्य तदाहूताः समाययुः || ५५ ॥ षोडशस्य शतस्याब्दे त्रिसप्ततितमे रमे । मावमासावदातस्य पक्षस्योत्तमवासरे ||२६|| वाद्यमानेषु वाद्येषु सुशब्देषु धनेषु च । गीयमानेषु गीतेषु सधवैर्युत्रतीजनैः ॥५७॥
४५-तया लाली नाम्न्या । किं कृत्वा ? व्ययायेत्खा वित्तं समुत्सृज्य । व्ययण वित्तसमुत्सर्गे चुरादि अदन्तः । द्रव्येण तद्गृहे लालीम्न्याः श्राविकाया गृहे अव्ययीभावोऽक्षयीभावो भेजेशिश्रिये । प्रभूतेऽपि द्रव्ये तीर्थयात्रादिषु व्ययीकृतेऽपि तद्गृहे द्रव्याणि प्रभूतान्येवाभूवन्न न्यूनानीत्यर्थः ।
४८–हि यस्मात्कारणात्तु इति विशेषे । तस्य उपाध्यायपदस्य गुणाः तद्गुणास्तैस्तद्गुणैः शालिनः शोभनशीलस्य अनुपाध्यायोऽपि उपाध्याय पदयोग्यगुणैर्विशेषेण शोभमानस्येत्यर्थः ।
५२ -- लाति तच्छीला लाः, लीयते तच्छीला ली: । समासतः कर्मधारय समासात् । उभयोर्वर्णयोर्योगे लाचासौ लीश्चेति लाली तत्सम्बोधनं हे लाली !1 ला आदाने अदादि परस्मैपदी, लीच् श्लेषणे दिवादिरात्मनेपदी । उभयत्र अन्येभ्योरपी दृश्यते इति क्विप् ।
५३ - तन्मनोरथ सिद्धयर्थं लालीश्राविका मनोरथसिद्धये । तत्समक्षं लालीश्राविकासमक्षम् । सूरिः श्रीविजयदेवसूरिः ।
५५- तदाहूता लालीश्राविकाकारिताः ।
Aho ! Shrutgyanam