________________
५३
सर्गः ]
विजयदेवसूरि-माहात्म्यम्
एवं विशावदाः श्राद्धः श्रद्धया धर्मकर्मसु । चकार रूपमेतेषां श्रीपण्डितपदोत्सवम् ||३१|| कनकविजयः प्राप्य श्रपण्डितपदश्रियम् । विनयं लघुवृद्धेषु यन्नाहंयुः सदाऽकरोत् ||३२|| एवमुद्भूतद्भूत श्री पण्डितपदर्द्धिमान् । कनकविजयोऽराजद्राजेव भविता हासौ ॥ ३३ ॥ -- श्रीकनकविजयस्य पण्डितपदम् । अथास्ति पत्तनं नाम पत्तनं पत्तनोत्तमम् । रत्नयोनिं यतो लाकास्तद्ब्रुवन्ति च नापरम् ॥ महेभ्या तत्र लालीति नाम्नी वसति कामिनी । श्राविका कामुका नैवं कामुक्यपि कदापि न ॥ शीलवत्यो हि या आसन श्राविका : सुलसादिकाः ।
तासामेषोsaarरः किं जातैषा ब्रह्मचारिणी ॥३६॥ कुतोऽपि सुकृतात्कान्तात् प्राप्तसम्पत्ति सन्ततिः । कुतोऽपि दुष्कृताद्दुष्टात् सा निष्पति- सुताऽभवत् ( कुतोऽपि दुरितात्सासी निष्पतिः सुपतिः श्रिया, श्रियां इति वा पाठः ॥ ३८ ॥ ) फलं लक्ष्म्यादिकं वल्गु फल्गु पत्यादिदुःखजम् । सद्धर्माधर्मयोर्बुद्ध्वा साहद्धर्मं समाचरत् ॥ अर्हदुक्तप्रकारेण विधिना शुद्धधर्मधीः । व्रतानि द्वादशाजस्रं श्रावकाणामपालयत् ||४०|| अथान्यदा फलं भूरि सा गुरोरगृणोन्मुखात् । शत्रुंजयादितीर्थानां यात्राकरणसंभवम् ||४१|| श्रुत्वोत्थाय गुरोरग्रे सर्वसंघसमक्षकम् । आकार्य सर्वदेशानां सङ्घान सर्वात्मनोत्तमान् ॥४२॥ शत्रुञ्जादितीर्थानां यात्रां कर्तास्मि भावतः ।
sataदिति सद्भक्त्या सिद्धयतामिदमीप्सितम् ||४३|| युग्मम् ॥ श्रीमुत्तमं कृत्वा श्रीसङ्केन जनोत्तमा । उत्तमाहेऽकरोयात्रां शत्रुञ्जयमुखाईताम् ॥ ४४ ॥
३४ - पत्तनं नाम पत्तनं नगरं अस्ति । कीदृशं पत्तनं नाम पत्तनं पत्तनोत्तमं पत्तनेषु नगरेषु उत्तमं श्रेष्ठं पत्तनोत्तमं सर्वनगरोत्तममित्यर्थः । तदेवाह-यतो यस्मात्कारणाल्लोका स्तत्पत्तनं नाम पत्तनं रत्नयोनिं रत्नानामुत्पत्तिस्थानं रत्नखानि ब्रुवन्ति । च पुनः अपरं अन्यद् नगरं रत्नयोनिं न ब्रुवन्ति ।
३५ - कामुकामैथुनाभिलाषसहिता नैव । अत्र रिरंसाया अभावादेव जानपदकुण्डेति ङीप् निषेधे, अजाद्यतष्टाविति टापू अपीति पुनरर्थे । कामुक्यपि मैथुनेच्छावत्यपि कदापि कस्मिन्नपि काले न कामुकीत्यत्र जानपदकुण्डेति मैथुनेच्छायां ङीष् ।
३६-एषा लाली श्राविका । याः सुलसादिकाः श्राविकाः, हि निश्चितं शीलवत्य आसन् तासां | किमिति वितर्के । एष अवतारो जाता । कथंभूता एषा ब्रह्मचारिणी ।
४४-उत्तमं च तदद्दृश्च उत्तमाहः शोभनं दिनमित्यर्थः । पुल्लिङ्गस्तस्मिन् उत्तमाहे । अह्नखोरेवेति टप्रत्यये टिलोपे च उत्तमाहः । श्रीसन लक्ष्मीसमूहेन जनोत्तमाः शत्रुञ्जयमुखाऽर्हतां मुखशब्दस्याद्यर्थत्वात् । शत्रुञ्जयगिरिनारशतेश्वरार्बुदाचलादितीर्थकुराणाम् ।
Aho ! Shrutgyanam