________________
श्रीवल्लभोपाध्यायविरचित
[नवमः उत्थाय तत आनन्दादागत्यास्थानमन्दिरम् । आकारयच्छुभेऽह्नि सामतिमाकारिणो नरान्।। तेऽप्याजग्मुस्तदाहूताः कृत्वा ज्योक्कारमादरात् । आसन्त पुरतस्तस्य तेनैवोक्तवराज्ञया ।। तदैवं कथयामास तानहद्विम्बकारिणः । द्वासप्ततिजिनेन्द्राणां कुर्वन्तु प्रतिमा वराः ॥१७॥ तदा तदाज्ञयैवं ते प्रतिमाकारिणो नराः । चक्ररपतिमा अईत्पतिमाः प्रतिमोत्तमाः ॥१८॥ वर्तमानादिसत्कालत्रयसम्बन्धिनीरिमाः । द्वासप्तति जिनेन्द्राणां प्रतिमा महिमासमाः॥ आदायानीय तस्याने ढोकयामासुराशु ते ।
हृद्यमोदत ता दृष्ट्वा श्रावकश्रीविशावदाः ॥२०॥ युग्मम् । अकारयजिनागारं शकन्दरपुरे तदा । श्रीचिन्तामणिपाश्वस्य चैत्यस्यान्तिकमुत्तमम् ॥२१॥ प्रतिमानामथ श्रेष्ठ प्रतिष्ठां श्रीप्रतिष्ठया । विजयसेनसूरीन्द्रकरात्कारयति स्म सः ॥२२॥ तस्मिन्नवसरे मूरि विज्ञप्यांही प्रणम्य च । वदतांवर इत्याख्यत् श्रावकः श्रीविशावदाः॥२३॥ श्रीकीर्तिविजयाख्योऽयं कनकविजयोऽप्ययम् । शिष्यपशिष्यावेतौ ते भ्रातरौ द्वाविमौ मिथः ।। राजसुन्दरनामाऽयै कुशलविजयः पुनः । कमलविजयश्चैते पञ्च पञ्चमपञ्चमाः ॥२५॥ एतेषां विदुषां देहि पदं पण्डितनामकम् । श्रीसंघाग्रहतः श्रीमद्विजयसेन सद्गुरो ! ॥२६॥
---त्रिभिर्विशेषकम् । विजयसेनसूरीन्द्रस्ततस्तस्याग्रहाद् घनात् । ददौ तेषां हृदानन्दि पदं पण्डितनामकम् ॥२७॥ रूपकाणि मुदा प्रादात् तत्पण्डितपदोत्सवे । साधर्मिकादिलोकानां प्रतिहस्तं विशावदाः॥ अन्येऽपि श्रावका इभ्याः सभ्याः समयवेदिनः धर्माभिलाषिणो रूप्येश्चकुलम्भनिकां मिथः ॥ अहो पुण्यवतां पुंसां प्रभावः प्रभवत्यपि । मनोस्थानां लाभाय परेषां छुपकारकृत् ॥३०॥
१९-कथं भूताः प्रतिमाः ? महिमासमा:-महिना माहात्म्येन न समाः सदृशा यास्ता महिमाउसमास्ताः।
२५-पञ्चमेषु चतुरेषु पञ्चमा हृया ये ते पञ्चमपञ्चमाः । पञ्चमश्चतुरे हृद्य इति महेश्वरः।
२७-तेषां कीर्तिविजय १ कनकविजय २ राजसुन्दर ३ कुशलविजय ४ कमलविजयानां ५ पण्डितपदस्योत्सवः तत्पण्डितपदोत्सवस्तं । प्रतिहस्तमित्यत्र 'लक्षणे १ त्थंभूताख्यान २ भाग ३ वीप्सासु ४ प्रतिपर्यऽनव' इति लक्षणेऽर्थे प्रतियोगे हस्तमिति द्वितीया । प्रतिहस्तं हस्तं लक्षाकृत्येत्यर्थः । रूपकाणि नाणकानि । रूपं स्वभावे सौन्दर्थे नाणके पशुशब्दयोरिति महेश्वरः । स्वार्थिक के रूपकम् ।
२९-रूप्यं दीनारप्रमुखनाणकं । रूप्यं स्यादाहतस्वर्णरजते रजतेऽपि चेति महेश्वरः । यथा-मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकमिति ।।
३०-प्रभवत्यपि समर्थों भवत्येवेत्यर्थः । अपीति निश्चये । कथंभूतः प्रभावः हिर्यस्माकारणात् उपकारकृत् ।
Ahol Shrutgyanam