________________
श्रीवल्लभोपाध्यायविरचितं
अष्टमः
नाश्रयन्ति गृहस्थत्वं मदुक्तं बहुशोऽपि हि ।
शुद्धधर्मबलादेते जातसद्वचनाक्षराः ॥४२॥ युग्मम् । ज्ञात्वयं भूपतिधम तान् विनिश्चिन्तचेतसः । प्रेषयामास सत्कृत्य गृहं सद्वस्तुभूषणैः ॥४३॥ अथायान्तिस्म ते तस्य हादुत्सक्तोऽद्भुतात् । बलभद्रमहीपालकृताद् हर्षप्रकर्षतः ॥४४॥ आगत्यावसथे नाथः सुरताणश्व सोदरः । दीक्षोत्सवसुसामग्री व्यदधातामुभौ मुदा ॥४५|| वसन्त्यवसरे चास्मिन मेदिनीतटपत्तने । (पाठान्तरेण-मेडतानाम्नि पत्तने)
तपागच्छे महीयांसः श्रावका व्यवहारिणः ॥४६॥ तद्यथा-कोठारीकुलविख्याताः कल्ला टोलासुतान्वितः ।
____ अर्जनचासकर्णश्च रेखा अम्माभिधस्तथा ॥४॥ वीरदासो लसद्वीरदासचामरसिंहयुक् ।।
अन्येऽपि स्वपरीवारयुता आसन्महत्तराः ॥४८॥ युग्मम् । श्रीसूजा-हरदासश्च ताल्हणः पुण्यकारणम् । सादा-माना-दयश्चान्ये मन्त्रिणोऽमी बभुस्तराम् ॥ पदा-पत्ता-जिणामुख्या मुख्याः सर्वषु कर्मसु । सोनीवंशे सदा रव्याता बभुवुः श्रावकोत्तमाः॥ सहसा-सुरताणारव्यावास्तां कर्णाटवंशके । कुले भाण्डारिके भातां रत्ना-मोकाभिधानको ।। श्रीमान् ठाकुरो नाम शङ्करः शङ्करः सदा । मानो नरहरश्चेते शङ्खलान्वय आवभुः ॥५२॥
४१-४२-दृढ इति व्याख्या०-एते षण् नराः नाथा ? सुरताण २ नायकदेवी ३ केशव ४ कर्मचंद्र ५ कपूरचन्दाः ६ गृहस्थत्वं नाश्रयन्ति न सेवन्ते । कथं० गृहस्थत्वं हि निश्चितं बहुशः मदुक्तं वलभद्रेण राज्ञा उक्तं । कस्मान्नाश्रयन्ति शुद्धधर्मबलात् । कथं० एते जातसद्वचनाक्षराःसत्सत्वाद् वचनान्न क्षरन्ति न पतन्तीति सदचनाक्षराः जाताश्वते सद्वचनाक्षराश्च जातसद्वचनाक्षराः । के इव उत्प्रक्ष्यते--दृढधर्मादयः शब्दा इव । यथा दृढधर्मादयः शब्दाः जातसद्वचनाक्षराःजातं सत्सु सत्येषु वचनेषु प्रथमादीनां सप्तविभक्तीनां एकद्वित्वादिवचनेषु अक्षरं नकारादिलक्षणो वर्णो येषां ते जातसद्वचनाक्षराः । तथा एतेऽपि षड् नरा इत्यर्थः । कथंभूताः; दृढधर्मादयः शब्दाः विशेषतां विशेषभावं प्राप्ताः । किं कृत्वा ? आत्मनः स्वस्य पूर्वी अकारन्ततां प्रकृति सूत्रात् धर्मादच केवलात् इति लक्षणात्यक्त्वा । द्वितीयपक्षे कथं भूता एते विशेषतां प्राप्ताः सामान्यश्रावकलोकापेक्षया साधुधर्माङ्गीकारात् विशेषत्वं प्राप्ताः । किं कृत्वा पूर्व प्रथमां प्रकृति श्रावकधर्मलक्षणां पाप कृति वा त्यक्त्रा । अत्र एते इति उपमेयपदं, दृढधर्मादयः शब्दा उपमानपदं; शुद्धधर्मबलादिति उपभेयपदं; सूत्रात् इति उपमानपदम् ।
४८--कोठारी । ४९-मुंहता । ५०-सोनी । ५१-भण्डारी। ५२ सांखला । ५३-भडकतीया।
Ahol Shrutgyanam