________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् रत्नसिंहो नृणां रत्नं राजसिंहो नृराजितः । सीहमल्ल-रता नाम प्रमुखा विदिता बभुः॥५३॥ सदारङ्गः सदारङ्गो धनो धन्यो धनीश्वरः । सुरताण इमेऽभूवन् श्रीभडकतियान्वये ॥५४॥ सुरत्राणः कृतत्राणः दाहा हाहाविवर्जितः । त्रिलोकश्रीरमीपालः सचिंतीकुल आवभुः ॥५५॥ संघपः पेतसी ख्यातो मन्त्री नरबदस्तथा । रविदासो रवित्रासाः प्रतापादभवन्नमी ॥५६॥ द्रव्यदायी सदा देदा बंगाणी सद्गुणाग्रणीः । अभाच्छीमत्तपानाम-सद्गच्छोद्योतकारकः ।। भारमल्लः सदामल्ल-तुल्यो दानवलादिभिः । रविदासस्तथाऽभातामेतौ तातहडान्वये ॥५॥ देवीदासा धनो नाम डूंगरो वत्सनामकः । अशोभन्त त्रयोऽप्येते सर्वदा सर्ववत्सलाः॥५९॥ मुरत्राणः स्फुरत्प्राणः शाईलः स्थूलभूधनः । जीवाभिधस्तथेत्याद्या आसन पीमसरान्वये ।। भैरवो वर्धनो वीर एते भाण्डारिके कुले । व्यराजन्त च देपालः परीक्षककुलेऽभवत् ॥६१॥ महिकाभिध ऊदाह्वो मायीदासः सुमायिकः । इत्यादयो महीयांसो बभूवुर्गच्छदीपकाः॥५२॥ अत्रत्यैरेभिरन्यश्च परदेशागतैरपि । एतेषामचिकीयंन्त वरयात्रावरास्तिकैः ॥६॥ अत्रान्तरे मृशन्नेवं पण नरास्ते परस्परम् । श्रीमत्कपूरचन्द्रस्य दक्षिा योग्या न बाल्यतः॥६४॥ भवेत् कपूरचन्द्रो हि यावत्सप्ताब्दिकः किल । तावत्तिष्ठतु मातास्य पालनाय तदादरा ॥६५॥ प्रगृह्णातु ततो दीक्षां माता पुत्रेण संयुता । पालनीयास्ति कष्टेन दीक्षा यन्महतामपि ॥६६॥ विचार्येवं तदा नाथो दीक्षाग्रहणतः खलु । निवार्यास्थापयत् पुत्रयुतां मातरमालये ॥६७|| साप्यस्थात्पुत्रसंयुक्ता पुत्रपालनहेतवे । पत्युः कथनकारित्वं पत्न्या धर्मः सदोत्तमः ॥६॥ कुर्वाणा परमं धर्म श्रावकं व्रतिनीव हि । पन्यतिष्ठत् सुतं तस्य पालयन्ती च सद्बतम् ॥ केशवः कर्मचन्द्रश्च नाथस्यात्मरुहाविमौ । नाथः पिता तयोरेव पितृव्यः सुरताणकः ॥७॥ चत्वारश्चतुरा एते कर्मारीन् हन्तुमुद्यताः । द्रव्यं दारांश्च संत्यज्य दीक्षायामभवन पराः ॥७॥
( चत्वारश्चतुरा एते दीक्षाग्रहणतत्पराः।।
बभूवुरल्पकर्माणः संत्यज्य स्वगृहांस्ततः ॥७१॥ इति पाठान्तरम् )-युग्मम् । ते यच्छन् प्रत्यहं प्रातविणं स्वगृहोचितम् । दीनेभ्यो याचकेभ्यश्च दिव्यधान्याम्बराणि च ॥ पूर्वोक्ता अथ ते श्रीमन्मेदिनीतटवासिनः । श्रावका भोजयन्ति स्म चतुरस्तान् घनादरात् ॥
५५-संचिन्ती त्रिलोकश्रीः तिलोकसी इति नामेत्यर्थः । हाहा सुरवरः । ६५-तस्मिन् कपूरचन्दनाम्नः पुत्रस्य पालने आदरो यस्याः सा तदादरा ।
६९-तस्य नाथस्य पत्नी नायकदेवीनाम्नी । श्रावकस्याय श्रावकः तं, तस्येदमित्यण श्रावकसम्बन्धिनमित्यर्थः ।
७१-ततः नाकयदेव्या कपूरचन्दस्य च गृहे रक्षणानन्तरं स्वं च द्रव्यं गृहांश्च दारान् ।
Ahol Shrutgyanam