________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् अलङ्कारैरलङ्कत्य परिवायाम्बराणि च । प्रभूतं प्राभृतं लात्वा जग्मुस्ते तत्र पण नराः ॥२४॥ प्राभृतं पुरतो मुक्त्वा निपत्य च पदाम्बुजम् । स्वोचितं स्थानमासाद्य तस्य ते तस्थुराज्ञया । तान् निरीक्ष्य परीक्ष्याक्ष्णा दर्शनादेव तत्क्षणात् ।।
शान्तात्मान इमे सत्या आसूध्वमित्यव्रवीन्नृपः ॥ २६ ॥ तानासीनानथाऽपृच्छद् बलभद्रस्तदादरात् । कथं गृह्णन्ति भो दीक्षा भवन्तस्तद् ब्रुवन्तु माम् ।। किं दुःख कस्य कस्माद्वा युष्माकं कश्च दुःखदः । निवारयाणि तत्सर्वं यद्वाञ्छत ददानि तत् ॥ यदि स्यान्न धनं पार्थे धनं तर्हि ददाम्यहम् । ग्रामं ग्रामोत्तमं चारीन द्वारा निराकरवाणि च ।। व्यापारं कुरुतां नन्दात् सुखेन वसतात्र च ।
दुःखतः पालनीया हि दीक्षा यत्कोमलाङ्गकाः ॥३०॥ चतुर्भिः कलापकम् ।। इति श्रुत्वा नृपपोक्तं वचनं तेऽपि पण नराः । तदोत्तरन्ति वाक्शुरा इव भूमीश्वरोत्तमम् ॥ कस्मात् कस्यापि वा दुःखं नास्माकं सर्वदा सुखम् । भवत्प्रसादतः सर्व धनं चास्ति महीपते । परं स्त्रीभिर्धनैः पुत्रैामैश्वान्यैर्गवादिभिः । नास्ति कार्य सदास्माकं विना धर्म हि सर्वदा ॥ एवं विवोध्य सद्बुद्धया धर्ममय्या च सगिरा । हर्षयन्ति स्म भूपालं पण नरा धर्मतत्परा ॥ पुनः प्राहेति भूपालस्तदा तान् विनयान मुदा । दीक्षां गृहन्तु भो वृद्धा, न गृह्णन्तु च बालकाः॥ माहुः श्रुत्वेति भूपालं ते सर्वे सर्ववल्लभाः । अस्माकं बालका एव दीक्षाग्रहणकारणम् ॥३६॥ एभिविना न चास्माकमेषां चास्मान् विना किल । सर्वथा नैव भूपाल दीक्षाग्रहणमहति ॥ एतत्साहाय्यतोऽस्माकमेषां साहाय्यतस्तु नः । दीक्षाग्रहणनिर्वाहो न संभवति सर्वथा ॥३८॥ उक्ति-प्रत्युक्ति-सयुक्त्या विज्ञायेति महीपतिः । प्रसन्नोभूय तानाख्यत् यूयं धन्यतमा इति । दृढधर्म-प्रियधर्म-शब्दौ शब्दानुशासने ।
नकारान्तौ हि निष्पन्नावञ्चैितेषु षड् नृषु ॥ ४० ॥ युग्मम् । दृढधर्मादयः शब्दा इव प्राप्ता विशेषताम् । त्यक्त्वाकारान्ततां सूत्रात् पूर्वी प्रकृतिमात्मनः ॥
२५-ते पण नराः तस्य बलभद्रमहीपालस्थ आज्ञया तस्थुः-ऊर्ध्वा अभूवन् इत्यर्थः। तस्येति पदं अत्रापि योज्यं । किं कृत्वा, तस्य बलभद्रस्य पुरतोऽग्रतः प्राभृवं ढौकनं मुक्त्वा । पुनः किं कृत्वा, तस्य बलभद्रस्य राज्ञः पदाम्बुजं चरणकमलं निपत्य नत्वेत्यर्थः ।
४०-इति विज्ञाय । इतीति कि ? हि निश्चितं दृढधर्मप्रियधर्मशब्दो नकारान्ती शब्दानुशासने व्याकरणे निष्पन्नौ सिद्धौ; अर्थाञ्च एतेषु पड्नृषु निष्पन्नौ । एते पहनराः हढधर्माणः प्रियधर्माण इत्यर्थः।
Ahol Shrutgyanam