________________
४२
श्रीवल्लभोपाध्यायविरचितं
[ अष्टमः अथास्मिन् समये शास्ति बलभद्रो महीपतिः । राज्यं श्रीमेडताद्रङ्गे भ्रातृगोपालसंयुतः ॥१८॥ सोऽशणोत् लोकवार्तति प्रव्रजन्ति हि षण्णराः।
पिता माता त्रयः पुत्राः पितुर्धाता तथा महान् ॥ १९ ॥ गृहं गृहांश्च संत्यज्य प्रभूतानि धनानि च । स्वयंबुद्धा इव ज्ञानात् मिथोबुद्धा विवादतः ॥२०॥ रूपस्वभावलावण्यैरुत्तराः कुरवः किमु । नोत्तरे चापरे लोका यानाख्यान्तीति पण्डिताः।।२१॥ बलभद्रमहीपालस्तदेत्याकर्ण्य विस्मितः । तान् समाकारयामास प्रविमुच्य निजं नरम् ॥२२॥ नृपप्रैष्यस्ततस्तेषां गृहे गत्वेत्युपादिशत् । हयते बलभद्रोऽसौ युष्मान् भो षण्णनरा द्रुतम् ।।
२०-गृह मन्दिरं गृहान् परिणीतस्त्रीः स्त्रियं वा । परिणीतस्त्रीवाची गृहशब्दः पुंक्लीबलिङ्गः पुंस्ययं बहुवचनान्त एव। मिथः परस्परं बुद्धाः ज्ञातधर्माधर्मफलाः। एतौ अदृष्टाऽभुक्तभोगी केशवकर्मचन्द्रनामानौ पुत्रौ बालकौ यदि प्रव्रजतस्तर्हि वयं भुक्तभोगा: संसारे कथं तिष्टाम, न स्थास्याम इति कारणादेव मातृपितृपितृव्या यथाक्रमं मिथो बुद्धाः । कस्मात् ज्ञानात् । अत एव, पुनः कस्मात् विवादतः । कथंभूता एते उत्प्रेक्ष्यंते स्वयंबुद्धा इव ।
२१-पण्डिता यान् मातृपितृपितृव्यपुत्रान् षड् नरान् इति आख्यान्ति कथयन्ति । इतीति किं कथंभूताः पणनराः । किमु इत्यव्ययं विचारे । रूपस्वभावलावण्यैः करणभूतैः । उत्तराः कुरवः उत्तरकुरुक्षेत्रोत्पन्ना युगलिन इति विचारयन्ति । न अपरे अन्ये लोका उत्तरे उत्तरदेशोद्भवाः । यादृशाः रूपस्वभावलावण्यैः उत्तरकुरुक्षेत्रोत्पन्ना युगलिनः सुन्दरास्तथा एते षग्नराः अपि सुन्दराः, नान्ये उत्तरदेशोत्पन्ना लोका इत्यर्थः । उत्तराः कुरव इत्यत्र सत्यामपि न नान्नीति निषेधकथनात् पूर्वापरेति सूत्रेण वैकल्पिको जसःशीन भवति । व्यवस्थेति कोड: । स्वाभिधेयापेक्षोऽवधिनियमो व्यवस्था । अस्यार्थ:-स्वाभिधेयो दिगदेशकालस्वभावोऽर्थस्तमपेक्षते यः सः स्वाभिधेयापेक्षः । एवं विधो योऽवधिनियमः स व्यवस्था। तत उत्तरशब्दस्य दिगदेशकालस्वभावे अर्थे सत्यपि उत्तरशब्दात्पूर्वापरेति वैकल्पिको जसः शीभावनिषेधो नामत्वात् । ननु उत्तरशब्दस्य दिग्देशकालस्वभावाना नामत्वे सत्यपि न नाम्नीति कथं कथयतेति चेत् ब्रुमः-कुरवो द्विधा मेरुपर्वतात् दक्षिणस्यां दिशि भवत्वात् देवकुरवः । देवशब्दपूर्वत्वेनैव प्रसिद्धत्वात् तेषां न दक्षिणशब्दपूर्वत्वेनेति उत्तरस्यां दिशि भवत्वात् । उत्तरशब्दपूर्वत्वेनैव प्रसिद्धत्वात् । उत्तराः कुरव इति कुरव इत्युक्तेश्च सामान्येन उभयोः देवकुरव उत्तरकुरव इत्यनयोग्रहणं स्यात् । तत उत्तरशब्दस्य विशेषस्य द्योतकत्वात् उत्तरा इत्युक्तरुत्तराः कुरव इति लभ्यते । अत उत्तरशब्दस्य कुरव इत्यस्य नामान्तरद्योतकत्वात् । नानीति कथनं न दुष्टं। उत्तर इत्यत्र पूर्वापरेति वैकल्पिके जसः शोभावे प्रथमा बहुवचनं । नात्र प्रत्ययो न च तस्य लोपः । कुरव इत्यत्र जनपदे लुप् इति अण् प्रत्यय लुपि सति लुपियुक्त वद् व्यक्तिवचने इति प्रकृतिवत् लिङ्गवचने ज्ञेये।
Ahol Shrutgyanam