________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम्
अष्टमः सर्गः
अथैवं वर्तमानोऽसौ वर्धमानं दिने दिने । जिनशासनसाम्राज्यं भुनक्ति द्युतिमत्तरम् ॥२॥ अदीक्षत घनान् शिष्यान् प्रतिद्रङ्गमनेकधा । विजयदेवसूरीन्द्रो जिनधर्मोपदेशतः ॥२॥ धर्मोपदेशतो यस्य प्रतिबुद्धा भवन्ति हि । भव्यास्तीर्थङ्करस्येव श्राद्धाः सम्यक्त्वधारिणः ॥३!! सर्वदा सर्वदा यस्य सफला धर्मदेशना । लोकानां कल्पवल्लीव निष्फला स्यात्कदापि न ॥४॥ अथ श्रीमेडताद्रङ्गे मण्डनो भूमिमण्डनम् । श्रीचोरबेडियागोत्रे समभूत् श्रावकोत्तमः ॥ ५॥ सुरताणः सुतस्तस्य प्रथमः प्रथमः कुले । द्वितीयो नाथ इत्यारव्यः समभूत्समभूत्तमः ॥ ६॥ नाथस्यात्मरुहोऽभूवंस्त्रयो लोकत्रयोत्तमाः। केशवः श्रीकपूरश्च कमानामापि च क्रमात् ॥ ७ ॥ यथाक्रममवर्धन्तं पाल्यमाना अहर्निशम् । मात्रा पित्रा तथान्यैश्च त इवात्ममनोरथाः ॥ ८ ॥ समये पितरौ तांश्च सर्वविद्या अपाठयन् । शीघ्रमध्यापकाभ्यांदपठस्ते च ताः समाः॥ ९ ॥ तनयानां विवाहाय सत्कन्या व्यवहारिणाम् । अयाचेतांतरां प्रेम्णा पितराबादरेण हि ॥ अस्मिन्नवसरे पुत्रों द्वौ केशव-कपूरको। नोपयच्छावहे कन्ये अब्रूतामिति धर्मिणौ ॥ ११ ॥ संसारिणां हि संसारे स्यात् प्रियं पाणिपीडनम् ।
___ तत्तौ न्यषिध्यतां बालौ कस्माचिदपि कारणात् ॥ १२ ॥ संभावयाम ईदृशं तत्र मिथ्या न सर्वथा । कारणं स्तोकसंसार उपान्तसुकृतं पुनः ॥ १३ ॥ बहुक्तावपि तौ पित्रा मात्रा वान्यैनिजैरपि । विवाहं नाभ्यमन्येतां स्तोकसंसारिणौ यतः ॥ दीक्षामेवाभ्यमन्येतां तदा तौ सुकृते रतौ । रतौ यत्र भवेत् यो यत तदेवाङ्गीकरोति सः॥१५॥ पितरौ च पितृव्यश्च सर्व एते त्रयस्ततः । उद्विग्ना भवतोऽभूवन् सम्यक् तत्पतिवोधिताः॥१६॥ ततस्त ऊचिरे सर्वे संभूयेति परस्परम् । वयं च प्रत्रजिष्यामो यद्येती प्रव्रजिष्यतः ॥ १७ ॥
६-समस्यां सर्वस्या भुवि उत्तमः समभूत्तमः । सर्वार्थस्य समशब्दस्य सर्वादिगणे पाठात् स्त्रीलिङ्गे सप्तम्येकवचने, सर्वनाम्नः स्याट् इस्वश्चति; स्वाट इत्यागमे आपश्य हवं समस्यामिति रूपसिद्धिः।
९-ताः सर्व विद्याः, कथंभूताः समा मनोरमाः ! समं सावहिलं सहक इत्यने ।
१६-पितरौ नाथाभिधः पिता, नायकदेवी माता । पिता च माता च पितरी । पितामात्रेति पितृशेषः । च पुनः पितृव्यः काकउ इति लोकभाषाप्रसिद्धः, सुरताण इति नामा एते त्रयः । कथंभूता एते त्रयः । ततो वीवाहानङ्गीकरणात् । ताभ्यां केशवकर्मचन्द्राभ्यां प्रतिबोधिताः । अयं संसारो दुःखदायी, विषोपमा विषया इति ज्ञापिता येते तत्प्रतिबोधिताः ।
Ahol Shrutgyanam