________________
४०
श्रीवल्लभोपाध्याय विरचित
[सप्तमः निरवर्ततसत्कान्त एवं मूरिपदोत्सवः । न्यवर्तत च सर्वषां सन्ततिर्दुरितांडसाम ॥९॥ ततः सर्वत्र सर्वत्र प्रावर्तत जयारवः । श्रीसूरेः श्रावकेशस्य श्रीमल्लस्य च निर्मलः ॥१२॥ श्रीमत्पत्तनसगङ्गे निरमाद् वन्दनोत्सवम् । सहस्रवीर आनन्दाद्यस्य द्रव्यव्ययाद् घनात्॥१३॥ षोडशस्य शतस्यास्मिन् अष्टपञ्चाशवत्सरे । षष्टयां पौषस्य कृष्णायां गुरुवारे शुभावहे ॥१४॥ ततः शंखेश्वरं पार्थजिनं नन्तुं च जग्मतुः । गुरुशिष्यावलक्ष्येतां सल्लाकैविनयात्तदा ॥९॥ मरुदेश निवास्यत्र हेमराजश्च सपः । शत्रुञ्जये जिनानन्तुं गच्छंस्तावभ्यवन्दत ॥ ९६ ॥ समस्तमरुदेशादिदेशवासिजनान्वितः । स्वभुजोपार्जितद्रव्यव्ययं कुर्वन्ननेकथा ॥९७|| बहवोत्रामवन् भव्याऽवदाताश्चोत्सवा नवाः । निर्मिताः श्रावकैर्वक्तुं तानलं नाऽलसो यतः॥
इत्थं वासकुमार एष उदयी पाकपुण्यपुण्यार्जनात् , श्रीमत्सूरिपदं क्रमादलभत प्राप्तकसाम्राज्यकम् । श्रीश्रीवल्लभपाठकेन पठितं लभ्यं न पुण्यं विना,
श्रुत्वेति प्रवणा भवन्तु भविका धर्मे मनःशुद्धितः ।।९९॥ इति श्री श्रीवल्लभोपाध्याय विरचिते श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजयदेवसरि सूरिपदप्रदानवर्णनो नाम सप्तमः सर्गः ॥७॥
न्धुपुरश्रीमदहम्मदावादादिनगरनिवासिनः श्रावकाः । अनाहूतानिति विशेषणेन च श्रीस्तंभतीर्थ निवासिनः श्रावका इत्यर्थोऽवसेयः ।
९२-सर्वान् त्रायते इति सर्वत्रः सर्वरक्षकः सूरिपदोत्सवे बन्दिलोकाः कारातः छोटिताः। चटकादयो जन्तवोऽपि पञ्जरादितः छोटिता इति सर्वत्र इतीदं विशेषणं पुष्टम् ।
९३--सहस्रवीर: पारिक्खगोत्रः ।
९५-पश्चिमार्धव्याख्या । तदा सस्मिन्काले श्रीविजयसेनमूरि श्रीविजयदेवसूर्यो: श्रीशङ्खश्वरपार्श्वजिननमस्करणहेतव श्रीशद्धेश्वरनगरप्राप्तिसमये सल्लोकः पण्डितलोकार्वनयात् किंचिदुच्चावचभद्रासनोपवेशनात् गुरुशिष्यो श्रीविजयसेनमूरिर्गुरुः श्रीविजयदेवमूरिशिष्यः अलक्ष्यतामज्ञायतामित्यर्थः।
९८-अत्र श्रीशद्धेश्वरनगरे मरुदेशनिवासी पिंपाडियामवास्तव्यः साहश्रीताल्हासुतो हेमराजसंघपतिस्तौ श्रीविजयसेनमूरिविजयदवेसूरिकर्मतापन्नौ अभ्यवन्दत । शेषं सुगमम् ।
Ahol Shrutgyanam