________________
३९
सर्गः ]
विजयदेवसूरि-माहात्म्यम्
अथ भोजन सामग्रीं कारयामास सोऽग्रिमाम् । सुधामिव सुरेन्द्राणां नराणामतिवल्लभाम् ॥ तत्रादौ मोदकान् दिव्यान् खज्जकान् सज्जनोचितान् । कुण्डली घृतपुरादीन् श्रीसंज्ञैलादिमिश्रितान् ॥ ७७ ॥
एतानेव च कर्पूरकाश्मीरद्रव्यसंयुतान् । अन्यानपि महावीर्यान् बहुजातोनकारयत् ॥ ७८ ॥ ततो नानाविधानेकदेशेभ्यो व्यवहारिणः । श्रावकानाहयामास तेऽप्यागच्छन् समृद्धितः ॥ आनन्ददायिनं नन्दि न कैश्चिदपि निन्दितम् । अथारोपयदानन्दात्स तदा सतदादृतः ॥८०॥ तस्योपरि चतुर्दिक्षु चतुरचतुरो जिनान् । स्थापयामास साक्षित्वे सर्वविघ्नोपशान्तये ॥ ८१ ॥ मण्डपेऽथ समागच्छतुच्छोत्सवपूर्वकम् । विजयसेनसूरीन्द्रो विद्याविजयसंयुतः ॥८२॥ संभूय श्रावका लोकास्तथान्ये तं दिदृक्षवः । आसतान्तर्बहिश्चैव मण्डपस्य यदृच्छया ॥८३॥ षोडशस्य शतस्यास्मिन सप्तपञ्चाशसंवति । वैशाखशुदि चतुर्थ्य गीतगानादिपूर्वकम् ||८४|| सूरमन्त्रमथो सूरिः प्रादात् पाणौ तदीयके । अश्रावयच्च तत्कर्णे दक्षिणे घुम्टणार्चिते ॥ ८५ ॥ सूरिमन्त्रं प्रदायाथ सूरिरित्यब्रवीन्मुखात् । सूरिर्विजयदेवोऽयं सर्वसङ्घसमक्षकम् ||८६ ॥ अर्हत्सिद्धसदाचार्योपाध्यायाः साधुसाधवः । कुर्युः सङ्घस्य कल्याणं पञ्चैते परमेष्ठिनः ॥८७॥ इत्याशीर्वच उत्कृष्टमादिशद्धसावकम । विजयदेवसूरीन्द्रस्ततः सङ्घस्य सद्विरा ||८|| श्रीमल्लः श्रावको हर्षात्ततो ख्याणि सादरः । ददौ श्रावकसङ्गेभ्यो याचकेभ्योऽपि भावतः ।। भोजनानि पुरोक्तानि मोदकादीन्यभोजयत् । आहूतानप्यनाहूतान् श्रावकान् स जनानपि ॥
पक्षे लिखिताः । पुनः कथं० ? नानाकारा विविधचित्राः । द्वितीयपक्षे विविधाकृतयः । पुनः कथं भूताः ० ? बुधादाः बुधानां अर्थात् महर्द्धिकोत्तमलोकानां आदरो येषु ते । तथा महर्द्धिकोत्तमलोकयोग्या इत्यर्थः । द्वितीयपक्षे । पुन कथं० बुधैराद्रियन्ते इति बुधादराः ।
I
८०-तस्मिन् नन्दी अर्थात् नन्दिरचनायाः करणे आटताः आदरवन्तः नन्दिरचना करणप्रवीणा नरा इत्यर्थः । तदाहता सह तदादूतैर्वर्तते यः स सतदादृतः । नन्दिरचनाकरणप्रत्रीण नरसंयुत इत्यर्थः ।
८९ - अत्र रूप्यशब्दो नाणकपर्याय: । यन्महेश्वरः - रूप्यं स्यादाहतस्वर्णरजते ऽरज तेऽपि चेति । यथा- मणिरूयादिविज्ञानं तद् विदां नानुमनिकभितिः ।
९० - श्रीमल्लः श्रावकः श्रावकान् अपीति समुच्चये जनान् अर्थात् श्रावकेभ्योऽन्यान् लोकांच पुरोकानि मोदकादीनि भोजनानि अभोजयत् । कथंभूतान् श्रावकान् आहूतान् परदेशेभ्यः परनगरेभ्यो वा आकारितान् । पुनः कथं० अनाहूतान् अनाकारितान् परदेशापेक्षया परनगरापेक्षया वा खनगरनिवासिन इत्यर्थः । आहूतानिति विशेषणेन पत्तन राजधना
Aho! Shrutgyanam