________________
.
.
श्रीवल्लभोपाध्यायविरचित
[सप्तमः अशोभन्ततरां तत्र कुत्रचिबहुजातयः । शश्वत्कारस्कराः साराः सहकारादयः किल ॥६८॥ तमेष्यन्ति नरा द्रष्टुं ये तेऽतिपदुःखिताः। मा भवन्तु निषीदन्तु च्छायास्थिति स्थिता इव ।। कुत्रचित्तत्र मातङ्गास्तुरङ्गाः करमा अपि । तिष्ठन्तु स्वामिनः श्रान्ता इति भक्त्या स्थिता इव ।। तस्योपरि समाकृष्टमुत्कृष्टं व्यलसत् स्थुलम् । चतुर्दिग झल्लरीयुक्तं वियुक्तं सर्वदूषणः ॥७॥ श्वेतमिव बहिः श्वेतं प्रत्यक्षश्वेतपर्वतम् । ब्रुवन्ति पण्डिता यत्तद् व्यद्योतततरां किल ॥७२॥ द्यावाभूम्योर्विचालस्थं विमान कोऽपि कौतितम् । चित्रव्याजात्समायुक्तं सुपर्वत्वात् सुपर्वभिः॥ तत्रान्तर्यत्र चित्राणि पुरुषाणां योषितामपि । तन्मिषात्तानि तं द्रष्टुं छन्ना देवा इवावभुः।। सद्वर्णा इव सद्वर्णाः प्रस्तीर्णा लिखिता बुधैः । तस्याऽशोभन्त भूपट्टे नानाकारा बुधादराः ॥ पदमिहाप्यनुष्य व्याखेयं । ततो नरा देवान अर्पन्तु इतीच्छया इति वाञ्छया बभुर्वा शुशुभिरे इव । अत्र वार्तालेशः पुष्पाणि हि इत्यचिन्तयन् यन्नराः श्रीविद्याविजयं द्रष्टुमायास्यन्ति तत्र च नन्दिमारोपयिष्यन्ति नन्दौ च देवप्रतिमा भविष्यन्ति तासां पूजाथै तत्कालगृहीतपुष्पाणि विलोक्यन्ते। ततो वयं प्रागेव तत्र भवामश्चेत्तहि त अस्मान् लात्वा प्रतिमाः पूजयन्ति इति वाञ्छया पुष्पाणि बभुरिवेति कवेरुत्प्रेक्षा | वा इत्यव्ययमिवार्थे ।
६९-ननु माघमासे पदमहोत्सवोऽभूत् । माघस्य शिशिरतों संभवात्कथं अर्कातपदुःखिता इति । ब्रूमः शिशितौँ अतिशीतत्वात् अर्कातपस्व सुखकारित्वेऽपि प्रायोदुःखकारित्वात् प्रभूतकालमासेवनेन दुःसहत्वात् । अतिपदुःखिता मा भवन्तु, छायासु निषीदन्तु इति सहकारादीनां विचारो न दुष्ट इति ।
७२-तत्थुलं व्यद्योतततरां अतिशयेन व्यराजत । तदिति । यत् स्थुलं प्रति पण्डिताः प्रत्यक्षश्वेतपर्वत कैलासपर्वतं त्रुवन्ति । कथंभूतं स्थुलं बहिः श्वेतं धवलं । किमिव ? श्वेतमिव रूप्यमिव | यथा रूप्यं श्वेतं भवेत्तथेदमपि बहिः श्वेतं । स्थुलस्य बहिः श्वेतत्वात् रूप्योत्प्रेक्षा कैलासपर्वतोत्प्रेक्षा च युक्ता ।
७३-कोऽपि अर्थात् कविः । तं मण्डयं द्यावाभूम्योराकाशपृथिव्योर्विचालस्थं मध्यस्थितं विमानं कैति कथयति नायं मण्डपः किन्तु विमानमिति । कथं ? चित्र व्याजात् । देवदेवीचित्रभिषात् सुपभिर्देवैस्समायुक्तं सहितं कस्मात्सुपर्वत्वात् प्रधानमहोत्सवात्।
७५--तस्य मण्डपस्य भूपट्टे सद्वर्णा इव प्रधानाक्षसणीव । सद्वर्णाः प्रधानास्तर' दलीचा प्रमुखाच्छादनवस्त्रविशेषा अशोभन्त । कथं भूताः सवर्णा बुधैश्चतुरनरैः फरास इत्यादि भाषा प्रसिद्धः प्रस्तीर्णा विछाया इति भाषाप्रसिद्धाः । द्वितीयपक्षे-कथंभूताः सद्वर्णाः प्रधानाक्षराणि बुधैः पण्डितैः प्रस्तीर्णा विस्तारं प्राप्ताः । पुनः कथंभूताः ? लिखिता इव लिखिताः । द्वितीय
Ahol Shrutgyanam