________________
सर्गः |
विजयदेवसूरि-माहात्म्यम्
स्तम्भतीर्थ पुराभ्यर्णे समायाच्छ्रीगुरुर्गुरुः । भवदाहृत आहूत सम्पन्निचयनिश्चयः ||५५ || पश्यंस्तदागमाध्वानं प्रतिक्षण क्षणान्वितः । श्रुत्वा तदागमं चित्ते सोऽतुष्यत् सेवकोदितम् || श्रीमल्लः श्रावकोऽभ्यायान्महाजनसमन्वितः । स्तम्भतीर्थान्तरा नेतुं वन्दितुं चातिहर्षतः ॥५७॥ सूरेरन्तिकमभ्येत्य प्राणमत्तत्पदाम्बुजम् । सत्रिःप्रदिक्षिणीकृत्य रूप्यनीराजनां व्यधात् ॥ वाद्यमानघनातोद्यैर्गीयमान सुगानकैः । नृत्यन्नर्तकसंघातैः पश्यच्छस्यजनत्रजैः ॥५९॥ स्तम्भतीर्थ पुरस्यान्तरुपाश्रयप्रवेशनम् | उत्सवः श्रीगुरुः प्राप ततः श्रीमल्लनिर्मितैः ॥६०॥ इति धर्माशिषं पूज्यः सङ्घसन्तोषपोषिकाम | सुधासदृशया वाण्या सङ्घाय समुपादिशत् ॥ धर्मो वो मङ्गलं कुर्याद्दानशीलाद्यनेकधा । तनौ धने तनूजादिकुटुम्बे भविकाः सदा ||६२|| धर्माशिषमिमां श्रुत्वा श्रावकाः प्रीतचेतसः । रूपकैर्नालिकेरैश्च चक्रुर्लम्मनिकां मिथः ||६३॥ अथ मण्डपमुत्कृष्टमिष्टं मण्डयति स्म सः । नेत्राणां प्रथमो न्हणामुत्सवो दर्शनोचितः ॥६४॥ तत्र वस्त्रवृत्तिभित्तिर्दृढाऽविज्ञातसन्धिका । विचित्रैश्चित्रिता चित्रैर्नतादृकृतपूर्विणी ॥ ६५ ॥ कुत्रचित्र चित्राणि द्वन्द्वानि विविधानि हि । नानुस्थानमवाप्स्यामः प्रागेवेति स्थितानि किम् । कुत्रचित्तत्र पद्मानि नराः क्रीडन्त्वितीच्छया । बभ्रुव कापि पुष्पाणि देवानचैत्वितीच्छया ||
५५- आहूतः आकारितः | सम्पदां निचयः समूहः स एव तस्य वा निश्चयो येन सः । आहूतसम्पन्निचयनिश्चयः । अथवा आहूतानां धातूनामनेकार्थत्वात् सम्पन्नानां सम्पदां निचयस्य समूहस्य निश्चय इव आहूतसम्पन्निचयनिश्चयः । गुरुविशेषणमेतत् ।
५८-रूप्याणां रूपकानां रूपइया इति लोकभाषाप्रसिद्धानां नीराजना आरती निवच्छणां इति भाषाप्रसिद्धा रूप्यनीराजना ताम् ।
६०-ततः श्रीगुरुः स्तम्भतीर्थपुरस्यान्तर्मध्ये उपाश्रयप्रवेशनं प्रापकैरुत्सवैः किं० श्रीमeoनिर्मितः श्रीमल्लनाम्ना श्रावण कृतैः । शेषाणि चत्वारि विशेषणानि स्पष्टानि । गीतं गानं गेयं गीतिरित्यभिधानचिन्तामणिः ।
६५ - तन्त्र मण्डपे पूर्व कृता केनेति कृतपूर्विणी । सुप्सुपेति समासे सपूर्वाच्चेति निः ऋन्नेभ्यो ङीप् इति ङीप् ।
६६- द्वन्द्वं स्त्री पुरुषौ । अनुपश्चात् ।
६७-तत्र मण्डपवृत्तौ कुत्रचित् पद्मानि कमलानि बभुः शुशुभिरे । कया नराः क्रीडन्तु इतीया इति वाञ्छया बसु शुशुभिरे इव । लोका अपि कस्मिंश्चिदुत्सवे क्रीडां कर्तुकामाः परमवेषादिना भान्ति | अस्मान् छात्वा च अन्येऽपि केचन क्रीडन्ति इति च वाञ्छन्ति । तथा पद्मान्यपि अत्यद्भुताकारैरशोभन्त | श्रीविद्याविजयं द्रष्टुं समागता नराः अस्मान् लात्वा क्रीडन्तु इति ववाञ्छुश्च । च पुनः । तत्र मण्डपवृत्तौ क्वापि पुष्पाणि कुन्दादीने बभुः । कया ? नरा इति पूर्वार्धस्थितं
Aho! Shrutgyanam