________________
सर्गः विजयदेवसूरि-माहात्म्यम्
३१ स तदा तं प्रति माह ममानुज्ञास्ति तेऽधुना। श्रीगुरुं त्वद्गरुं शीघ्रं समाह्वय समानय ॥८॥ अध्यक्ष ते प्रतीत्याह स तदा प्रीतमानसः । भवन्नामाङ्कितं पत्रं लिखित्वा मुञ्च भो प्रभो॥ सोऽपि तत्पुण्यवश्यात्मा लिखित्वा पत्रमादरात् । स्वसेवककरे दत्वा स्वसेवकमचालयत् ।।९०॥ ततः सोऽप्यचलच्छीघ्रं यद्राजा करशासनः । उन्नताख्यं पुरं श्रीमदवाप त्वरितं चलन ॥११॥ यत्रोपाश्रय आसीनो गुरुस्तं तत्र सोऽनमत् । दर्श दर्श तदा तस्य नेत्रे नातृप्यतां तदा ॥१२॥ अध्यक्षस्य फिरंगीणां पत्रमेतद्गहाण भोः। भवदाकारणायाहं तेन प्रेषित आगतः ॥१३॥ इत्यादि कथयन् प्रीतो वारंवारं गुरोः पुरः। स ददौ श्रीगुरोर्हस्ते पत्रं फिरंगिभूपतेः ॥१४॥ तत्पत्रं वाचयामास संघस्याग्रे तदा गुरुः । श्रीगुर्वाकारणं श्रुत्वा श्रीसंघेनाप्यतुष्यत ॥९॥ स तदा सङ्घमापृच्छ्य चचालोत्तालमानसः। आलस्यं धर्मकार्येषु न सतां युज्यते यतः ॥९६॥ प्रचलन पथि धर्मात्मा प्रापयन धर्ममाईतम् । लोकानधर्मिणः मूरिः प्राप द्वीपपुरं क्रमात् ॥ तदा संभूय तत्रत्यः सङ्ग्रो मेघयुतोऽभ्यगात् । नत्वा कृत्वोत्सवं मूरि समानयदुपाश्रये ॥९८॥ दत्वेति प्राभृतं मेघस्तदाधिकृतमब्रवीत् । यो गुरुभवताहूतः स साम्प्रतमिहागतः ॥१९॥ स आहेति तदा प्रीतः स आयातु ममाग्रतः। सोऽप्यागत्यान्तिके तस्य धर्मलाभाशिष ददौ ॥ धर्मलाभाशिष श्रुत्वा स तुतोपतरां हृदि । स्थित्वैकत्र च तौ धर्मगोष्ठीमकुरुतां मिथः॥१०॥ धर्मगोष्ठी विधानेन स प्रसन्नोऽभवद् गुरौ । आह चेति यथेच्छे भो निवसन्त्वत्र साधवः॥१०२॥ ततस्तस्याग्रहात्तत्र श्रीमूरिः शरदौ द्वके । चतुरो द्वे चतुर्मास्यौ न्यवसद् धर्मद्धये ॥१०॥ दुरात्मानं पुरा नित्यं धर्मात्मानं च नूतनम् । चिरन्तनमिवात्यन्तं वरात्मानं सदातनम् ॥ अध्यक्ष श्रीफिरंगीणां साधुसेवापरायणम् । विधाय करुणात्मानं प्रतस्थे स गुरुस्ततः ॥१०॥ श्रीमद्वीपपुरे नित्यं प्रत्यब्दमथ साधवः । निवसन्ति हि कुर्वन्तः कारयन्तश्च सट्टपम्॥१०६॥
-इति फिरंगीणां अधिकारीप्रतिबोधः श्रीद्वीपे । प्रतिष्ठा जिनबिम्बानां प्रतिबोधोऽन्यतीथिनाम् । मालारोपादयोऽनेके धर्मा एकैकतोऽधिकाः ॥ देशे देशे महीयोभिरुत्सवैरतिसुन्दरैः । सर्वदा सर्वदानाढ्यैर्गामे ग्रामे पुरे पुरे ॥१०॥ कृताः श्रीमरिणा रम्याः कारिताश्च विशेषतः । तानहं नालिख सर्वान् ग्रन्थविस्तरभीतितः ॥
-त्रिभिर्विशेषकम् ॥ शत्रुभयोज्जयन्तादि तीर्थयात्रा अनेकथा । अनेकसङ्कासंयुक्तः सोऽकरोदुत्सवोत्करैः ॥११०॥ लिखितुं तान्न शक्नोमि नव्यनव्यान दिने दिने । वर्णनीयान् सदा देवैर्यतोऽहमलसो भृशम् ॥
९८-अभ्यगात अभिमुखमगच्छत् ।
Aho I Shrutgyanam