________________
३२
श्रीवल्लभोपाध्याय विरचितं
इत्थं वासकुमारचारुचरणादानमभावोद्भवं माहात्म्यं विजयादिसेन सुगुरोस्सत्यं जगद्विश्रुतम् । श्रीवल्लभपाठकः समपदत्तच्छ्रावकाः सन्ततं श्राश्रावमनिन्दितं स्वहृदयेऽभ्यानन्दताऽनिन्दिताः ॥ ११२||
इति श्रीवल्लभोपाध्याय विरचिते श्रीमत्तपागच्छाधिराज पातसाहि श्रीअकब्बर प्रदत्त जगद्गुरु बिरुद्धारक भ० श्रीहीरविजयसूरीश्वर० पातसाहि श्रीजिहांगीर प्रदत्त महातपा विरुद्धारि भट्टारक श्रीविजयदेवसूरीश्वर गुणवर्णन प्रबन्धे श्रीमद्विजयदेवमाहात्म्य नाम्नि महाकाव्ये श्री विजयदेवसूरि दक्षाग्रहणप्रभावोद्भव श्रीविजयसेनसूरि माहात्म्य वर्णनो नाम षष्ठः सर्गः ॥६॥
14] G+:
[ षष्ठः
११२ – भो श्रावकाः ! तत् विजयादिसेनसुगुरोः श्रीविजयसेन सूरीश्वरस्य माहात्म्यं सन्ततं सदा श्रावं श्रावं श्रुत्वा श्रुत्वा स्वहृदये अभ्यानन्दत । कथंभूतं इत्थं अनेन प्रकारेण श्रीमदकब्बर पातिसाहि परिषद्वादावधानपराजितानन्तप्रतिवादिवृन्दादिलक्षणेन वासकुमार चारुचरणादानप्रभावोद्भवम् । पुनः कथंभूतं ? सत्यं । पुनः कथंभूतं ? जगविश्रुतम् । तत किं ? यन्माहात्म्यं श्रीश्रीवल्लभ पाठकः समपठयत् अकथयत् ।
Aho! Shrutgyanam