________________
श्रीवल्लभोपाध्यायविरचितं अस्मिन्नवसरे मूर्ति प्रतिष्ठायै समाह्वयत् । श्रीसुरेतपुरात् मेघः स्वपत्नीलाडकीरितः ॥६६॥ ततः प्रस्थाय सूरीन्द्रः श्रीसूरेतपत्तनात् । प्रतिष्ठायै समागच्छत् श्रीमदुन्नतपत्तने ॥६॥ अकरोत् स ततः श्रेष्ठां प्रतिष्ठां सुदिने दिने । कारितां श्राद्धमेघेन यथाविधि महोत्सवात् ॥ न केचिदपि ताक्षी याशी पागकारयन् । प्रतिष्ठां स न कश्चित्पाग व्यधापयद् व्यधाच सः॥ अत्रान्तरेऽन्तिपच्छ्रेष्ठः श्रीनन्दिविजयाह्नयः । कोविदः सर्वविद्यासु सर्वभाषाविदुत्तमः ॥७०॥ गुरवो हि फिरङ्गीणां पादरी इति तद्राि । सन्ति तान् रञ्जयामास पत्रद्वारा दुरात्मनः ॥७॥ अत्यन्तं रमितास्ते च जिनधर्मविदस्तदा । अभवञ् जिनभक्ताश्च साधुसेवापरायणाः ॥७२।। पादरीहन्दमानन्दादार्हन्तं धर्ममुत्तमम् । गुणांश्च जैनसाधूनां फिरङ्गीणां पुरोऽवदत् ॥७३॥ ततः फिरङ्गीसल्लोका जैनसाधून दिदृक्षवः । विवन्दिषव इत्याख्यन् पादरोवृन्दमादरात् ॥ पादरी ! श्रीगुरुं शीघ्रं समाह्वय सुभक्तितः। अपरं न किमप्यत्र विचारय विचारवित् ।।७५॥ ततश्च पादरी पत्रं विलेख्य च विमोच्य च । सूरीन्द्रमाह्वयामास श्रीमद् दीपपुरे तदा ॥७६।। नायाति स्म तदा मूरिविना मेघस्य सद्वचः । यतो मेघः फिरङ्गीतो भीतोऽतो न समाह्वयेत् ॥ मेघनामास्ति का ख्यातः सर्वतो जगतीतलम् । किं गोत्रः कस्य पुत्रश्च वसति क्व च पत्तने । इति सर्व समाख्यामि यथाजातमनिन्दितम् । तत्परीभूय तद्भव्याः श्रावकाः शृणुतादरात् ।। तद्यथा-अथास्ति भरतक्षेत्रे नगरं द्वीपनामकम् । अधिकारी फिरंगीणां तत्र राज्यं करोत्यलम् ॥ रामसीतार्चनं नित्यं मनुते नान्यदेवता । विना स्वधर्ममन्येषां धर्म च न कदापि सः ॥८॥ श्रेष्ठी सहस्रदत्तोऽभूत्तत्र सर्वद्धिमत्तरः । पारिक्खगोत्रविख्यातो माननीयतरोत्तरः ॥८२॥ फिरङ्गीणां प्रियोऽत्यन्तं तस्य पुत्रः पवित्रधीः । मेघो नाम जगत्ख्यातो वर्तते महिमानिधिः॥ नागात् मूरिः समाहूतःश्रीफिरङ्गाधिकारिणा । मेघस्योति विना वार्ता ज्ञातपूर्वी ति भक्तिमान् श्रावकेणान्यदा तेन स इति प्रत्यबोध्यत । गुरुरस्ति वरिष्ठः श्री. प्रत्यक्षपरमेश्वरः ॥८॥ इहायाति स आहूतो यद्याज्ञा भवतो भवेत् । इह तस्मिन् समायाते मम धर्मोऽभिवर्धते ॥८६॥ अधिकारीति हि श्रुत्वा प्रससादसरां तदा । दुष्टात्मापि विशिष्टात्मा पृष्टस्तुष्टो भवेज्जनः॥८७॥
-साधुसंयोगतो भवेत् ; विज्ञप्तो विनयाद्भवेत्-इति पाठान्तरद्वयम् ॥
६९-उक्तिलेशश्चास्य-स मेघः याशी प्रतिष्ठा व्यधापयत् ताही प्राग पूर्व केचिदपि न अकारयत् । चः पुनः स विजयसेनहरिः यादृशी प्रतिष्ठा यथाविधि व्यधात् तादृक्षी कोऽपि प्राम् न व्यधात । अत्र प्रतिष्ठामिति कर्मपदं उभयत्र व्याख्येयं व्यधाद् इति क्रियापदमपि द्विरावर्तनीयम्.
७१-तदगिरा फिरङ्गीणां भाषया इत्यर्थः । ७४-इतीति किं तदाह । ८९-अध्यक्षं फिरंगीणां अधिकारिणां-अध्यक्षाधिकृतौ समौ इति हैमः ।
Ahol Shrutgyanam