________________ 130 परिशिष्टम् बन्दिरे श्रीमिश्र-चिन्तामणिप्रमुखेषु भट्टेषु सभ्येषु सत्सु अनेकपण्डितपर्षदि श्रीसूरिभिः समं विवाद कुर्वन् श्रीभूषणनामा दिगम्बराचार्यों यथातथाऽपसिद्धान्तं जल्पन जैनशास्त्रशैवशास्त्रपारगैर्गुरुभिनिर्जितस्ततः काकनाशं ननाश / अथ निश्शेषलोकक्रियमाणजयारवपूर्वकं श्रीसूरयः स्वं पदं प्रापुः / ततः क्रमाद् राजनगरे श्रीषांनषांनाख्यक्ष्मापपर्षदि जयश्रियं शिश्रियुः। अथ तत्रैव श्रीविद्याविजयनामक स्वपदयोग्य शिष्यं दीक्षयित्वा, श्रा० अहिवदेकारितां प्रतिष्ठां, पुनर्गन्धारबन्दिरे सा० इन्द्रजीकारितां श्रीवीरप्रतिष्ठा, पुनः स्तम्भतीर्थे श्रा० धनाईकारितां प्रतिष्ठां च कृत्वा तत्र चतुर्मासीचक्रुः। ततः पारणे मेवातदेशादागतान् श्रीहरिसूरीन सीरोहीनगरे नत्वा स्तम्भतीर्थ पुनरागत्य 50 वजिआराजिमाख्यकारितश्रीचिन्तामणिपार्श्वनाथप्रतिष्ठां कृत्वा, क्रमेण 1654 वर्षेऽहम्मदावादे भूमध्यामिर्गतां श्रीविजयचिन्तामाणिपार्श्वमात शकन्दरपुरेऽस्थापयत् / पुनस्तत्रैव वर्षे सा० मोटाख्यकारिता मतिष्ठा, पुनः दो० लहुआख्यकारितां प्रतिष्ठां कृत्वा लाटा[पल्यां ध्यानं विधार क्रमात् श्रीगूर्जरतीर्थयात्रां श्रीसौराष्ट्र शत्रुक्षयादितीर्थयात्रां च कृत्वा स्तम्भतीर्थे श्रीविजयदेवेसरीणां मूरिपदं दत्वा पुनर्वर्षद्वयान्ते 1658 वर्षे पत्तने गच्छानुज्ञा नंदि ध कृत्वा शिळेश्वर तीर्थयात्रायै समेतान् श्रीआचार्यसंयुतान् श्रीपूज्यान द्वादशशतशकटसंकटः सप्तशतीकरभतुरगोद्भटानेकसुभटविकटः सङ्घपतिहेमराजसको मरुस्थलीतः शत्रुञ्जययात्रार्थ व्रजन् महोत्सवेन प्रागमत् / ततः श्रीगुरवो राजनगरे चतुर्मासी चकुस्तदा तत्रत्यैः श्राद्धैः श्रीगुरुवाकप्रबुद्धैः पञ्चसप्तत्याद्यङ्गलाईप्र. तिमाणां महाडम्बरविशिष्टाः षट् प्रतिष्ठाः कारिताः / पुनस्तत्रत्येन सं० सूराख्येन प्रतिश्राद्धगृहं महिमुन्दिकां प्रयच्छता श्रीअर्बुदाद्रिश्रीराणपुरादिसकलतीर्थयात्रामासूत्र्य क्षेमेणागत्य श्रीसूरीन् प्रणय महती प्रभावना कृता / किंबहुना तत्राद्धे श्राद्वैर्महिमुन्दिकालक्षमेकं व्ययीकृतं / ततो राजधन्यपुरे प्रतिष्ठाद्वयं, पुनः स्तम्भतीर्थे प्रतिष्ठाद्वयं, प्रतिष्ठामेकामकब्बरपुरे च गन्धारबन्दिरे च प्रतिष्ठाद्वयं कृत्वा क्रमेण सौराष्ट्रराष्ट्रसङ्घाग्रहेण श्रीशत्रुक्षययात्रां विधाय तत्र देशे चतुसिकत्रयं प्रतिष्ठाऽष्टकं च कृत्वा रैवताद्रियात्रापूर्व नवीननगरे ज्येष्ठस्थिति स्थित्वा श्रीजामनामकं नृपं धर्मोपदेशतस्तुष्टं कृत्वा ततश्चलन्तः श्रीशद्धेश्वरपार्श्व प्रणम्य राजनगरे चतुर्मासी बह्वाडम्बरविशिष्टां प्रतिष्ठाचतुष्टयाँ च चक्रुः / इत्याद्यनेकसुकृत्यैर्जिनशासनं प्रभावयन्तोऽनेकसहस्रजिनप्रतिमाः पञ्चाशत्प्रतिष्ठासु प्रतिष्ठापयन्तो विमलाचलतारङ्गनारङ्गपुरशद्धेश्वरपञ्चासरराणपुरारासणाविद्यानगरादिषु जीर्णोद्धारान् पुण्योपदेशद्वारा कारापयन्तो हस्तासद्धचा च श्रीगौतमावतारा इव, बुद्ध या चाभयकुमारा इव, विद्यया चाभिनववनकुमारा इव, कृतज्ञतया श्रीरामचन्द्रा इव, धैर्येण गिरीन्द्रा इव, आज्ञया च सुरेन्द्रा इव, एकस्यार्थस्य शतार्थित्वेन श्रीसोमप्रभसूरय इव श्रीविजयसेनसूरयोऽष्टीवाचकपदानि सार्द्धशतपण्डितपदानि च दत्वा द्विसहस्रीमितसंयतिसमुदायस्याशां पूरयित्वा सवाईहीरविजयसूरिरिति बिरुदधारका भट्टारकत्वं विंशतिवर्षाणि प्रपाल्याकब्बरपुरे 1671 वर्षे ज्येष्ठकृष्णकादश्यां स्वर्ग जग्मुः। Aho I Shrutgyanam