________________ विजयदेवसूरि-माहात्म्यम् श्रीगुरुभिरपि श्रीहारसूरिभिर्भवतां धर्माशीर्वादो दत्तोऽस्तीत्याद्युक्तं / भृशं तुष्टः सन्नष्टावधानानि द्रष्टुकामोऽस्मीति गुरूनाचष्ट / ततो गुज्ञिया गुरुशिष्यश्रीनन्दिविजयाभिधविबुधसाधिताष्टावधानानि दृष्ट्वा वचनागोचरं चमत्कारं प्राप्तः। प्रसन्नः सन् महाऽऽडम्बरपूर्वकं स्वस्थान प्रापयतामिति स्वजनानादिश्य स्वं धामागमत् / अथेष्टवैद्योपदिष्टमितिमन्यमानै राजमान्यैर्वदान्यस्तत्रत्यास्तिकजनैरष्टदिनानि यावत् केवलं रूप्यकैरेव प्रभावनाद्याडम्बरस्तथा कृतो यथा जैन राज्यमेकच्छत्रमिव जातमिति / गुरूणां गौरवमसहमानेन केनचिद् भट्टेन--अमी जैना जगदीश्वरं ? भास्करं 2 गङ्गा 3 च न मन्यन्ते तेन हे श्रीशाहे ! भवादृशां भूभुजा नैतेषां दर्शनं योग्यामिति श्रुत्वा गुप्त कोपो भूपोऽन्यदा सभायातान् श्रीअनूचानपुङ्गवान् तद्विजोक्तमुक्तवान् / ततस्तत्खलावलसितं मत्वा तत्कालोत्पन्नस्वसमयपरसमयस्मृतिसूक्तिशुक्तिसमुद्रः श्रीसूरीन्द्रैस्तदीयशास्त्रसम्मत्यैव स्वाभीष्ट जगदीश्वरस्वरूपं निरूपितं / यथा-यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो, बौद्धा बुद्ध इति प्रमाणपटवः कर्मेति मीमांसकाः / अर्हन्नित्यथ जैनशासनरताः कति नैयायिकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः // 1 // अनेन तद्ग्रन्थोक्तकाव्येन तदीयशास्त्रशस्त्रेणैव तन्मदच्छेदश्चके / इति प्रथमं जगदीश्वरांगीकारप्रश्नोत्तरम् / अधामधामधामेदं, वयमेव स्वचेतसि / यस्यास्तव्यसने प्राप्ते, त्यजामो भोजनोदके // 1 // इत्यादियुक्तिभिर्द्वितीयं सूर्याङ्गीकारोत्तरम् / तथा गोदकमन्तराऽस्माकं देवप्रतिष्ठैव न स्वात् , इति तृतीयं गङ्गाङ्गीकारोत्तरम् / इति गुरूक्तवाक्यैः प्रहृष्टः शाहिः श्रीगुरूणां सन्मानं दत्वा खलास्तिरस्कृतवान् / ततस्तत्र द्रङ्गे श्रीशाहेराग्रहेण चतुर्मासकद्वयं विधाय एकदा पुण्योपदेशक्षणे प्रमुदितेन शाहिना किञ्चिद् याचध्वमित्युक्ते श्रीसूरिः स्माइ-हे श्रीशाहे ! गो 1 वृषभ 2 महिष 3 महिषी 4 हननं, मृतद्रव्यादानं 5 बन्दिग्रहणं 6 चेति षड् जल्पास्तव जगजनदुःखभत्रकस्य नाहन्तीति, एतेषां जल्पाना हानमेवास्माकं मुदां श्रीशाहीनां च सम्पदा निदानमित्युक्तेस्तुष्टेन श्रीशाहिना तत् षड्जल्पस्फुरन्मानं श्रीसूरिनाम्नैव सर्वत्र प्रहितम् / आस्मिन्नवसरे श्रीहीरसूरिभिवाधापशादन्तिमामिलनाय लेखप्रेषणपूर्वमाकारिताः सन्तस्तत्र विचित्रवादिलब्धजयवादाः श्रीसूरिपादाः शीघ्रमेव गुर्वाकारणं कारणमवगत्य चतुर्मासकमध्येऽपि चलन्तोऽविच्छिन्नप्रयाणैमरुमण्डलमण्डनीभवन्तः क्रमेण श्रीपत्तनं प्राप्तवन्तः / तत्र श्रीहोरसूरीणां स्वर्गमनमूनाख्यद्रङ्गे सजातं श्रुत्वा तत्संसारस्वभावमनुभाव्य त्यक्तशोकाः सुखप्राज्यं तपागच्छसाम्राज्यं पालयामासुः / अथ तेषां सुकृतकृत्यानि लिख्यन्ते / यथा-तैश्चम्पानेरदुर्गे १६३२वर्षे प्रतिष्ठा कृता / ततः सुरति Ahol Shrutgyanam