SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्। [ तपागच्छीयैकपडावलिगतं विजयदेवसूरिविशेषवर्णनम् ] अथातना पट्टावली पुरतोऽनुसन्धीयते सिरिविजयसेणसूरी, पट्टे गुणसहिमे अ / 'सिरिविजयसेणसूरित्ति व्याख्या-एकोनषष्टितमे पट्टे श्रीविजयसेनसूरिः, तञ्चरित्रं विस्तरतः श्रीविजयप्रशस्तिकाव्यतोऽवसेयं समासतस्त्वेवम्-संवत् 1604 वर्षे नारदपुर्या जन्म, सं. 1613 वर्षे पितृमातृभ्यां सह श्रीविजयदानसूरिहस्ते दीक्षा, ततः श्रीहीरविजयसूरिभिः सर्वशास्त्राणि पाठयित्वा डीसाख्यप्रामे ध्यानं कृत्वा सं. 1628 वर्षे फाल्गुन शुक्ल सप्तम्यां श्रीअहम्मदावादे सूरिपदं प्रदत्तं। तदनन्तरं सर्वप्रकारेण श्रीतपागच्छे ज्ञानदर्शनचारित्रादिसमृद्धिः शिष्याणां श्रावकाणां च वृद्धिश्च जाता / यतस्तस्मिन् वर्षे ऋषिमेघजीमुख्या लुकाख्यमतमुख्यास्तत्रत्याधिपत्य हित्वा सर्पः कञ्चलिकामिव तत्कुमतवासनां त्यक्त्वा श्रीतपागच्छगुरूणां शिष्यतां प्राप्ताः, तत्स्वरूपं तु प्रागनिरूपितं / ततः श्रीहीरविजयसूरयः 1639 वर्षे शाहिश्रीअकबरेण आकारिता यथा सन्मानिताः, तद्वयतिकरोऽपि पूर्व प्रकाशितः / ततः क्रमेण श्रीहीरविजयसूरयः श्रीविजयसेनसरिभिः सार्द्ध श्रीराजधन्यपुरे चतुर्मासीमासनिास्तस्मिन्नवसरे लाहोरनगरस्थेन श्रीअकव्वरसुरत्राणेन श्रीमदाचार्यगुणगणाकर्णनप्रीतान्त:करणेन तदाकारणाय स्फुरन्मानं प्रैषि / ततः श्रीगुरूणामाज्ञां शेषामिव शीर्षे निधाय ततश्चलन्तः पत्तनप्रभृतिनगराणि बहून् ग्रामांश्च पवित्रयन्तोऽनेकसवलोकैः पूजिताः परिवृताश्च श्रीअर्बुदाचलतीर्थयात्रां विधाय श्रीसीरोहीनगरे प्राप्तास्तदा तन्नायकेन राज्ञा श्रीसुरत्राणसम्झेन बह्वाडम्बरपूर्वक सन्मानिताः / ततः क्रमेण श्रीराणपुर-वरकाणकपार्श्वनाथादियात्रां कृत्वा स्वजन्मनगरी नारदपुरी च गत्वा क्रमेण मेदिनीपुर-डीण्ड्याणक-वैराट-महिमनगरादिषु भव्यलोकान् कोकान् सर्या इव श्रीसूरिधुर्या उद्बोधयन्तो लोधिआणाग्रामे समेयुः / तत्र श्रीशाहि. मान्यशेखश्रीअबलफजलभ्रातृजन्मा फयजीनामा श्रीसूरीनन्तुमागतः। तत्रानेकलोकविधीयमानबहुमानस्वरूपं स्पष्टाष्टावधानादिसाधकशिष्यश्रेणिस्वरूपं च दृष्वाऽतीवचमत्कृतचेतास्ततस्त्वरितं लाहो. रनगरे गत्वा श्रीशाहिपुरतस्तमुदन्तं यथादृष्टमभ्यधात् / तच्छुत्वा शाहिरपि घनाघनानीलकण्ठ इव श्रीगुरून् द्रष्टुं सोत्कण्ठोऽभूत। ततः क्रमेण श्रीसूर योऽपि शाहिप्रदत्तोद्य द्वाद्यवादनानेकानेकतुरङ्गमविचित्रवैजयन्तीतोरणधोरणीरमणीयमहामह्पुरस्सरं लाभपुरं पुरं प्रविश्य तद्दिन एव श्रीशेखजीदरबारीरामदासप्रमुखप्रधानपुरुषद्वारा काश्मीरीमहलनानि धानि श्रीशाहमिलिताः / शाहिरपि गुरून वीक्ष्य परमप्रमोदमेदुरः सन् श्रीहीरविजयसूरीणामुदन्तं वर्मनि कुशलोदन्तं च पृष्टवाम् / Aho I Shrutgyanam
SR No.009687
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy