________________ सर्गः ] विजयदेवभूरि-माहात्म्यम् तस्मान्मया केवलमर्थसिद्धचै जिह्वापवित्रीकरणाय यद्वा / इति स्तुतः श्रीविजयादिदेवः मूरिस्सम श्रीविजयादिसिंहैः // 202 // आचन्द्रसूर्य तपगच्छधुर्यों वृतो परेणापि परिच्छदेन / जीयाचिरं स्तान्मम सौख्यलक्ष्म्य श्रीवल्लभः पाठक इत्यपाठीत् / / 203 // इतिश्री बहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीय पाठक श्रीज्ञानविमलशिष्य श्री. वल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपातिशाह श्रीअकबरप्रदत्तजगदगुरुविरुद्धारक श्री हरिविजयसूरीश्वरपट्टालङ्कार पातिशाहि श्रीअकबरसभासंलब्धदुर्वादि जयवाद भट्टारक श्रीविजरासेनसूरीश्वर पट्टपूर्वाचल सहस्रकरानुकारिपातिशाहि श्रीजिहांगीरप्रदत्तमहातपाविरुदधारि श्रीविजयदेवसूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजयदेवसरि सर्वदेशविहारसान्निध्यादिवर्णनो नामैकोनविंशः सर्गः / तत्समाप्तौ च समाप्तं श्रीश्रीश्रीविजयदेवमाहाम्यनामकं काव्यं चतुरैवाच्चमा चिरं जीयात् / / लिखितोऽयं ग्रन्थः पण्डितश्री५श्रीरङ्गसोमगाण-शिष्य मुनिसोमगणिना | सं० 1709 वर्षे चैत्रमासे कृष्णपक्षे एकादशी तिथौ बुधौ लिखितं / श्रीराजनगरे तपागच्छाधिराजभ० श्रीविजयदेवसूरीश्वरविजयराज्ये / Ahol Shrutgyanam