________________ विजयदेवसूरि-माहात्म्यम् सडिअमे सिरिविजयदेवसूरी संवइ तवगणतरणितुल्लो // 1 // पष्टितमे पट्टे श्रीविजयदेवसूरिः / तवृत्तमपि यथादृष्टं कियल्लिख्यते यथा-श्रीराजदेशमण्डने ईडरदुर्ग संवत् 1634 वर्षे जन्म / ततो नवमे वर्षे-१६४३ वर्षे जनन्या सह दीक्षा | ततः 1655 वर्षे पण्डितपदं / ततोऽनुक्रमेण 1656 वर्षे स्तम्भतीर्थे सूरिपदं / तद्व्यतिकरो यथासर्वव्यवहारिश्रेणिशिरोमणि सा. श्रीमल्लनामा स्वभ्रातृजन्मना सा० सोमाख्येन सह श्रीआचार्यपदस्थापनार्थमर्थव्ययं कर्तुकामः प्रकामप्रमोदेन मरुभेदपाटलाटसौराष्ट्र कच्छ कुङ्कणादिदेशेषु गूर्जरदेशे च प्रतिग्राम प्रतिनगरं कुङ्कमपत्रिकाप्रेषणपूर्व सङ्घलोकान् सहस्रशः समाहूय तपागणयतियतिनीसप्तशतीमितपरिकरमाकारितवान् / अथ सकल सङ्घमिलनानन्तरं श्रीमल्लसाधुना बन्धुरताऽधरीकृतसुरमन्दिरे निजमन्दिरे दिव्यदुकूलकमनीयमण्डपं शक्रमण्डपमिव निर्माय विज्ञप्ताः श्रीविजसेनसूरयो वैशाखशुद्धचतुर्थी चतुर्थे रवियोगे कुमारयोगे मृगाङ्कमृगशिरःसंयोगाद् अमृतसिद्वियोगेऽपि च श्रीविजयदेवसूरिरिति नामस्थापनपूर्वक सूरिपदं ददुः। अथ श्रीमल्लसाधुना सन्तुष्टेन सङ्घमाक्तिस्तथाचक्रे यथा कल्पवृक्ष एवायमिति मेने / किं बहुना तस्मिन्महे सा०श्रीमल्लेन दशसहसरूप्यकव्ययः कृतः / ततस्तदनेतनदिने तत्रत्येन ठक्करकीकाख्येन तत्पदोत्सवनिमित्तमेवाष्टसहस्ररूप्यकव्ययपूर्व प्रतिष्ठा कारिता / एवं सर्वसङ्ख्यया श्रीविजयदेवसूरीणां पदमहे पञ्चाशत्सहस्रप्रमिता महिमुन्दिका व्ययिताः / ततः 1658 वर्षे पत्तने परीक्षकसहस्रवीरसज्ञेन पञ्चसहस्रमहिमुन्दिकाव्ययपूर्वकं गच्छानुज्ञानन्दिमहश्चके / अथ श्रीविजयदेवसूरयोऽहम्मदावादे प्रतिष्ठाद्वयं, पत्तने प्रतिष्ठाचतुष्टयं, स्तम्भतीर्थे प्रतिष्ठात्रयं बहुद्रव्यव्ययपूर्वकं कृत्वा स्वजन्मभूमौ श्रीइलादुगै चतुमासी चक्रुः / तदा तत्रत्यैः सङ्घलोकैरनेके महोत्सवाः कृताः। तन्माहात्म्यहृष्टो राजा श्रीकल्याणमल्लनामा चिन्तामणिपाठिमहाभट्टचट्टवेष्टितः प्रतिश्रयं प्राप्तस्तववादमकारयत् / तदा तेषां सूरीणां पुण्योदयापार्श्ववर्तिभिर्वादिदर्पसर्पगारुडरत्नैः पण्डितपद्मसागरगणिगीतार्थशिरोरत्नैरेव सर्वेऽपिभहास्तथा निजिता यथा लज्जिताः सन्तोऽहो! गुरूणां गुरुतेति स्तुवन्तो राजेन्द्रमुख्याः स्वाश्रयं प्रापुः। तदा तत्र महती प्रभावना जाता / ततो बृहनगरे वीरप्रतिष्ठा कृत्वा राजनगरे चतुर्मासी स्थिताः। तत्रावसरे इलादुर्गे श्रीऋषभदेवबिम्ब यवनैव्यङ्गितं ततस्तत्प्रमाणमेव नवीन बिम्बं श्राद्धैविधाप्य नटीपद्रे महत्या प्रतिष्ठायां श्रीसरिभिः प्रतिष्ठाप्य गिरिशिरःस्थचैत्यचैत्योद्धारपूर्वकं स्थापितं / ततोऽन्यदा श्रीमण्डपाचले श्रीअकबरपातिशाहिपुत्राजिहांगीरश्रीसलेमशाहिः श्रीसूरीन् स्तम्भतीर्थतः सबहुमानमाकार्य गुरूणां मूर्ति रूपस्फूर्ति च वीक्ष्य वचनागोचरं चमत्कारमाप्तवान् / ततः समये श्रीगुरुभिः समं धर्मगोष्ठीक्षणे विचित्रधर्मवाती पृष्ट्वा साक्षाद् गुरुस्वरूपं निरुपमं दृष्ट्वा च स्वपक्षीयैः परैः प्राक् किञ्चिद् व्युग्राहितोऽपि शाहिस्तदा तत्पुण्यप्रकर्षेण हर्षितः सन् श्रीहारसूरीणां श्रीविजयसेनसूरीणां च पट्टे एत एव पट्टधराः सर्वाधिपत्यभाजो भवन्तु, नापरः कोऽपि कूपमण्डू Aho I Shrutgyanam