________________ श्रीवल्लभोपाध्यायविरचितं [ एकोनविंशः दर्शनादेव पूज्यानामाचार्याणां गिरापि च / मिथ्यात्विनोऽपि विप्राद्यास्तत्रासन् प्राप्तबोधयः।। तस्मिन् वर्षे ववर्षाब्दोऽवृष्टपूर्वोऽभूतावहः / यं दृष्ट्वा मानवाः पाहुचतुर्थारष्किमागतः // 114 / ,श्रीजगत्सिंहराणोऽपि चमत्कारात्ततोऽवदत् / सत्यं सुगालिओ मर्दः समागादत्र सद्गुरुः // ततः प्रभृति सर्वत्र सुकालभवनाद् भुवि / असौ सुगालिओ मर्द इति ख्यातिरभूद् गुरोः / कदा स वासरो यत्र भावी मे गुरुसङ्गमः / इति ध्यायन् राजकार्यव्यग्रत्वान्नृपतिः स्थितः // अथ पारणके जाते चतुर्मास्या मुनीश्वरः / मेवाडदेशे व्यहरत्तीर्थयात्रार्थमुद्यतः // 118 // गुरुः श्रीकरहेडादितीर्थयात्रां विधाय च / चित्रकूटमहादुर्ग दूरादप्यवलोक्य च // 199 / / खमणोरपुरं प्राप्य प्रतिष्ठां चरमप्रभोः / मोहीग्रामीयसंघेन कारितामकरोत्ततः // 120 // ग्रामे गोगुंदके गत्वा नत्वा श्रीनवपल्लवम् / नाहीनानि सनिवेशे तथाप्याघाटपत्तने // 121 // एकैकां क्रमतश्चक्रे प्रतिष्ठां शिष्टहद्गुरुः / एवं देशे मेदपाटे प्रतिष्ठापञ्चकं कृतम् // 123 // अथ गूर्जरदेशेषु ज्ञात्वा चिचलिघून गुरून् / प्रागप्युत्कण्ठितो दृष्टुं श्रीजगत्सिंहराणकः // 124 पौंछोलाख्यसरोमध्ये महोद्यानान्तरालगम् / दलबादलके सौधे प्राच्यराणककारिते॥१२५॥ आश्चर्यकारके नाकि विमानमदहारके / नानामहोम्बरामुख्योद्भटभट्टयुतोऽभ्यगात् !!126 // दर्शनादेव सूरीन्दोनत्वावर्तादिपूर्वकम् / कृताअलिपुटस्तस्थौ सुविनीतस्मुशिष्यवत् // 127 // ११३-श्लोकचतुष्क कण्ठ्यं / अन्तिमे श्लोके तत्रेत्युदयपुरे विप्रभट्टराजपुत्रादयोऽने के मिथ्याविनोऽपि प्राप्तबोधयोऽङ्गीकृतशुद्धधर्मा आसन् जाताः / किं बहुना ? केचित्षडावश्यकभक्तामरादिपाठिनो जाताः / / ११९-अत्र पञ्चमे श्लोके स मुनीश्वरः श्रीविजयसिंहसूरिसंयुतोऽनेकलोककृतां विज्ञप्तिमवधार्य तदुपकारायाने कतीर्थानां श्रीकरहेडपार्श्वनाथादीनां यात्रा विधानाय च मोहीप्रामवासिसहकारितप्रतिष्ठाकरणाय च श्रीराणाजीकेन धनतरं सङ्घद्वारा विज्ञप्तोऽपि श्रीराणाजीकेन सह मिलने मम महालाभो भावीति पुनरत्र पादावधारणीय मेविति सङ्घविज्ञप्ति प्रतिपद्य च दशसहस्रमेवाडदेशे व्यहरदिति / 126- श्लोकत्रिकं कण्ठ्यं / परं प्राच्यः प्राचीनो यो राणकः अर्थाच्छीउदयासंहाख्यः श्रीउदयपुरनिवासकः पुनरुदयसागरसरोवरकारकश्च तेन कारिते। १२७-सौधे पुनः किं० नाकिनां देवानां विमानस्य मदहारके अत एवाश्चर्यकारके दलवादलनाम्नि महलविशेषे / राणकः कि. नानाजातीया ये उम्बरा वागियाख्याः पितृव्याशेषाजी श्रीकृष्णदासजर्जासिबलासिंघजीश्रीसुजाणासंघ श्रीमानसिंघजीश्रीभीमजीश्रीइन्द्रभाणजीमुख्याः / पुनः उद्भूटा ये भट्टा व्याकरणादिपाठिनो भट्टवासुदेवह रिपाठकप्रमुखास्तैर्युक्तः श्रीजगत्सिहराणकः श्रीगुरून् शतावधानाऽष्टावधानादिसाधकानेकच्छेकच्छात्र परिवृतान् द्रष्टुं अभ्यागादागत इति / Ahol Shrutgyanam