________________ विजयदेवसूरि-माहात्म्यम् 121 स्वच्छस्फटिकरत्नादिमतिमानां शुभे दिने / कृत्वा प्रतिष्ठामुत्कृष्टां ततस्यूरिवरोऽचलत् // 99 / / गत्वा कल्याणजीराज्यास्पदे द्रार देलवाडके / मन्त्रिमुख्येन मांडाख्यश्राद्धेन विहितोत्सवम् // श्रीशालिशैलबिम्बानां प्रतिष्ठां सुरिराड् व्यधात् / तस्मिन्महोत्सवे मेघो ववर्ष स्पर्धयेव किम् // तत्र गत्वानेकचैत्यानां वन्दनं च विलोकनम् / उपदेशप्रदानेन जीर्णोद्धारश्च निर्ममे // 102 अयोदयपुरीयोऽपि संघस्तत्रैत्य सत्वरम् / विधाय विविधां भक्ति विज्ञप्तिं च पुरो गुरोः // 10 विशिष्टशकुनान्वीक्ष्य श्रीपूज्याचार्यवर्ययोः / चतुर्मासकसम्बन्धि वचः प्राप्य पुरं ययौ // 10 // गुरु गहदे नत्वा श्रीपार्थ नवखण्डकम् / अदुदं शान्तिनाथं च श्रीआघाटमुपागमत् / / 105 // तपेति बिरुदप्राप्तिस्थानेऽत्राघाटपत्तने / सर्वोदयपुरीयोऽपि सङ्घोऽगाद्वन्दितुं गुरुम् // 106 // अथाषाढादिमेघने सुराचार्यस्य वारके / पवित्रे पुष्यऋक्षे च शुभेषु शकुनादिषु // 2071 आगच्छतो गुरून् ज्ञात्वा श्रीजगत्सिंहराणकः। संघायादात सम्पदं स्वां समग्रा सिन्धुरादिकाम् // अथ सज्जीकृतोत्तुंगतोरणश्रेणिबन्धुरम् / राणाजीदत्तपूर्वोक्तसामग्रीमीणितप्रजम् // 109 शृङ्गारिताशेषजनस्त्रीगीतोद्दाममङ्गलम् / पुरं प्रविश्य सुगुरुः प्रतिश्रयमुपाश्रयत् // 11 // अथ तत्रोत्सवाद्वते चतुर्मासं गुरुयधात् / श्रीमदाचार्यधुर्यस्तु श्रोआहडपुरे पुनः // 112 // आघाटे वीरचैत्यस्य जीर्णोद्धारो व्यधायि च / संघेन श्रीमदाचार्यवाकलाप्रीतचेतसा // 112 // १०१-श्लोकसप्तकं कण्ठ्यं / परं सप्तमश्लोकार्द्ध-तस्मिन्महोत्सवे यथा सर्वोऽपि संघ. लोको गुर्वागमात् प्रीतस्सन् वित्तैर्ववर्ष / तथैव तत्स्पर्धया मेघोऽपि मुशलधाराभिस्तथा ववर्ष यथा सर्वापि पृथ्वी जलमयी जातेति / अनेन तदानीं गुरुमाहात्म्यादेव लोके हर्षदानाधिक्य मेघागमनं चासूचिः। १०२-तत्र तस्मिन् देवकुलपाटके अनेकचैत्यानां शत्रुजयगिरिनारावताराणां बहूनां तु तपागच्छेन्द्रश्रीसोमसुन्दरसूरिवारके जाताना केषांचित्तु श्रीविजयदेवसूरिवारके तदुरदेशादेव तद्गच्छीयैः पण्डितकीर्तिविजयैः श्रीराणाजी श्रीकल्याणजी प्रतिबोधन तत्सही सपणप्रा. सादपातननिवारण-वाकलारजितानेकनागर-व्यवहारि-चारण-ग्रामेश्वर-ठकुरोपदेशप्रदान-बहुद्युम्नानयनााद्यमेन जीर्णोद्धारविषयीकारितानां पुनः सजीकृतमण्डितप्रतिमाणां चैत्यवन्दनं निर्ममे / पतितानां चैत्यानां च विलोकनं पुनरुपदेशद्वारेण जीर्णोद्धारश्च कारितस्तत्र चैकस्य कल्याणवसहीति नामकप्रासादस्य श्रीकल्याणजीकेनोद्धारकरणं प्रतिवर्षमष्टाधिकाराच्छाबशारणं च प्रतिपन्नमिति / १०८-अत्र सिन्धुरादिकां गजादिकां आदिशब्दादने कतुरङ्गमात्मीयमहावाद्यध्वजबन्धननगरशङ्गारणाज्ञादिग्रहः / शेषमन्वयादिकं स्पष्टम् / Ahol Shrutgyanam