________________ सर्गः ] विजयदेवसूरि-माहात्म्यम् 123 गुरुरपि किं कृतवानित्याहगंभीरध्वनिना तस्मै धर्मलाभं गुरुर्ददौ / नम्राय मेदपाटानामधीशाय हसन्मुखः // 128 // ततो गुरोरेव मुखे न्यस्तनेत्री नरेश्वरः। अद्य मे सफलं जन्म जातमित्यूचिवान्मुदा // 129 // गुरुणा दीयमानायां देशनायामथान्तरे / प्राचे पृथ्वीपतिः स्वामिन् विज्ञप्ति मेऽवधारय॥१३० आयुर्घनतरं केन कर्मणा प्राप्यते प्रभो / सम्यग विज्ञाय शास्त्रेभ्यस्तस्योपायं समादिश // 131 अथोवाच गुरू राजन् सावधानमनाः शृणु / पूर्व श्रीभीमभूपालो जातोऽणहिलपत्तने // 132|| दीर्घायुषोऽन्यदा श्रुत्वा सोऽथ मालवभूपतीन् / धारायां भोजराजस्य पार्श्व गैषीरस्वमन्त्रिणम्।। गत्वा नत्वा च तेऽप्यूचुः पृष्टं भीमेन वोऽस्त्यदः / कथं दीर्घायुषो यूयं वयं त्वल्पायुषः कथम् / / येनोपायेन दीर्घायुभवेद्भीमस्तमादिशत् / तिष्ठन्तु भो कियत्कालं सुखं भोजोऽप्यदोऽवदत् // वृक्षमेकमथोद्दिश्य भोजः पोचे च मन्त्रिणम् / जातेऽस्मिन् सर्वथाऽपत्रे तवोपायो वदिष्यते / / पत्राण्यस्य पतन्तु द्रागिति दध्यौ स मन्त्रिराट् / तच्चिन्तयैव वृक्षोऽभूत् निष्पत्रः पूर्वतो द्रुतम् // अथोपाये च तत्पृष्टे स्पष्ट भोजोऽप्यवक पुनः। सर्वथा फलिते क्षेऽस्मिन्नुपायोऽथ वक्ष्यते // सत्फलः फलदः शीघ्र स्तादेवं चिन्तितोऽमुना। पुरा नैवाभवद् यादृक् तादृक् स फलितः क्षणात् / / हसन्नथो भोजनृपः प्राह तं भीमधीसखम् / तव ध्यानायथा वृक्षो जातोऽपत्रश्च पत्रयुक्॥ तथा प्रजानां दुर्थ्यानादल्पायुः स्यादिलापतिः / प्रजानां च शुभध्यानादनल्पायुः पुनर्भवेत् / / दीर्घस्य जीवितस्येति श्रुत्वोपायमिमं स्फुटम् / यथादृष्टं जगौ गत्वा पत्तने भीमभूपतेः // 142 // ततः प्रभृति भीमोऽपि प्रजानां परिपालनात् / चिरं राज्यं च भुंक्ते स्म लोकानां हितचिन्तनात् / / तथा त्वमपि भूपाल लोकपालोऽसि पञ्चमः / चिरायुर्भव लोकानामन्योऽन्यहितचिन्तनात् // श्रीजगत्सिंहजीराणः श्रुत्वेति गुरुदेशनाम् / साधु साधु वदन्नुचैः स्वं शिरो धूनयन्मुहुः॥ गुरो त्वदर्शनादेव नूनं भावी जयो मम / गुरुरूचे पुना राजन् यतो धर्मस्ततो जयः // 146 // अथ राणकः पाहस धर्मः कीदृशः स्वामिन् यतो नित्यं जयो भवेत् / गुरुजगौ शणूर्वीश स तु जीवदयामयः // अथ श्रीराणकः स्माह रञ्जितो गुरुवाक्यतः / यद्युष्माकमभीष्टं तद् ब्रूत सवै करोम्यहम् // 148 // ततो गुरुजगौ राजन् जालपातान्निषेधय / पीछोलाख्ये तटाके च तथा तूदयसागरे // 149 / / जन्मनो मासि भाद्राख्ये जीवहिंसां निवारय / जन्ममासं यतः शाहि-दिल्लीनाथोऽप्यपालयत् // राज्याभिषेकवारेऽपि गुरौ हिंसां निवारय / मचिन्दनामके दुर्ग जीर्णोद्धारं च कारय // 15 // गुरूक्तांश्चतुरो जल्पानेतान् स प्रत्यपद्यत / तदैवारोपयद् घाट जालक्षेपनिषेधकम् // 152 // लात्वेति नियमान्नत्वा गुरुं द्राग् मेदपाटराट् / ययौ स्वं सौधमात्मीयपरिवारविराजितः॥१५३ अथो गुरुग्रूज्जरत्रां प्रति प्रस्थातुमुत्सुकः। संघेन रक्ष्यमाणोऽपि समीनाग्राममागमत् // 154 // Aho I Shrutgyanam