________________ सर्गः] विजयदेवमूरि-माहात्म्यम् सूरिः सपरिवारोऽपि हृष्टस्तल्लेखवाचनात् / कस्य न स्यान्मदोऽमन्दो हीन्दच्छत्रपतेर्हवे // 69 // श्रीराणाकारणं तस्य गुरोः श्रुत्वा तदा मुदा / सर्वस्संघश्चमचक्रे वक्रेतरतराशयः // 7 // तदानीं मेदिनीद्रङ्गवासी सङ्घोऽनघो धनः / श्रीमन्नागोरनगरे गुरुं नन्तुमुपागमत् / / 71 // सौवर्णे रौप्यकैः पुष्पैः शक्तिभत्त्यनुसारतः / पूज्यः पधरेणामा श्रावकैः पूजितस्ततः // 72 मेडतीयस्य संघस्याग्रहतश्चलितस्ततः / श्रीनागोरीयसंघेन संयुतः संयताधिपः // 73 // सपादलक्षदेशीयजन्तुजातं प्रबोधयन् / क्रमेण फलवीशं श्रीपाचप्रभुमानमत् // 7 // गुरु श्रीपाश्वतीर्थेशमेकमेव तदाऽनमत् / जङ्गमं तीर्थमायान्तं तं जना बहवोऽनमन् // 7 // कुशलात्सागरा विज्ञा गुरुभिर्वाचकाः कृताः / यतो महीयसि पदे ते महाफलदाः खलुः // 76 // अत्रान्तरे गूर्जरत्रासत्कः संघो महर्दिकः / समागाच्छर्करापात इवाभूदुग्धमध्यगः // 77 // तेन संधेन सर्वेण शर्वेणेवोरुभूतिना / पूजितास्तत्र तीर्थेशाः श्रीपूज्याचार्यसंयुताः / / 78 // अथ नागपुरीसंघे गुरुं नत्वा गृहं गते / गुरवो गुरुसंघाब्याः प्रापुः श्रीमेडतापुरीम् // 79 // जयमल्लाख्यमन्त्रीशस्तत्रागाद् गुरुसंमुखः। कुर्वन्महोत्सवाद्वैतमोन्नत्याञ्चित्तवित्तयोः // 8 // ६९-पूर्वार्ध सुबोधं हीन्दूछत्रपतेः श्रीराणाजीकस्य हवे आकारणे सति कस्यान्यस्य लोकस्य मदोऽहङ्कारः, गुरोस्तु स सर्वथा नास्तीति गुरुपक्षे मदो हर्षः / यदनेकार्थः-मदोऽहकारे हर्षे चेति / हर्षोऽपि गुरोजिनशासनोन्नति विनीति हेतोः / ७०-चक्रात् इतरो वक्रेतरः सरल इति यावत् / अतिशयेन वक्रेतरो वक्रेतरतरः आशयोऽभिप्रायो यस्य सोऽतिसरलमना इति / अत्र प्रकृष्टेऽर्थे तरतमाविति तरप्रत्ययोऽतिशयार्थवाचक इति। ७२-पूज्यः श्रीभट्टारकः / पट्टधरण श्रीविजयसिंहमूरिणा अमेति सार्ध / साकं सत्रासन सार्धममा सहे ति श्रीहेमनाभकोशे / तेनात्रामायोगे तृतीयाऽन्यत्स्पष्टम् / ७३-संयतानां साधूनामधिपो गुरुरित्यर्थः / ७५-द्वितीयपदे-णम् प्रतीभावे इत्यस्य धातोः अनद्यतन्या विभक्तेः परस्मैपदैकत्वम् चतुर्थपदे तस्यैव धातो बहुत्वं / जनानां बहुत्वं तु नागोरमेडताद्यनेकस्थानीयमहाजनसमागमादिति | ७६-पश्चिमाघे-यद्धेतोस्ते गुरवः सूरयः बृहस्पतयश्च महीयसि पदे स्थाने फलवार्द्धमहातीर्थलक्षणे, पक्षे महीयसि उच्चस्थाने समागतास्सन्तो महाफलदा भवन्त्येवेति ज्योतिर्विदां मतम् / ७८-अन्न द्वितीयपदे-शर्वेण ईश्वरेणेव / किं. उर्वी भूतिः सम्पद् यस्येति तेन; पक्षे भूतिर्भस्म यस्य तेनेति / शेष सुबोध / ७९-सुगमं / परं गुरवः सूरयः / किं० गुरुणा महता सङ्घन गूर्जरजासत्कन मेडतासत्केन च आख्यास्सन्त इति / Ahol Shrutgyanam