________________ 118 श्रीवल्लभोपाध्यायविरचित [एकोनविंशः आरासणेऽर्बुदाद्रौ च सीरोहीनगरादिषु / स्वर्णशैलीयदेशे च श्रीजाबालपुरादिषु // 6 // मरुस्थल्यां मेडतादौ कोट्टे घंघाणिकापुरे / ओसवालोत्पत्तिभूमावोकेशनगरादिके // 6 // सपादलक्षदेशे च श्रीमन्नागपुराङ्किते / इत्यादिद्रङ्गन्देशेषु व्यहार्षीद् वृषवद्गुरुः // 62 // -सप्तभिः कुलकम् / इतो मरुस्थलीमध्ये सदा स्वास्थ्यनिबन्धनम् / श्रीमत्सुरेरवस्थानमेवाकर्ण्य स्वर्णयोः // 63 // श्रीमेदपाटदेशेशश्रीकर्णनृपस्नुना। श्रीजगत्सिहसंज्ञेन श्रीराणाकेन चिन्तितम् // 64 // युग्मम्। अहो मरुस्थले देशे यन्महिम्ना महीयसा / अष्टाब्दावधि यन्नष्टा दोषा दुर्भिक्षकादयः // 65 // पश्यामि यदि तस्यास्यं सूरेः सुकृतशेवधेः / मरौ दुष्कालवन्मेदपाटे पापं प्रयाति नः // 66 // ध्यात्वेति तेन धात्रीणां पत्याऽत्यन्तादराद् द्रुतम् / प्रेषिता बहवो लेखाः मरेराकारणाय च // 67 तदा पुरे नागपुरे श्रीगुरुर्विहरन्नभूत् / लेखहारकहस्तेन लेखास्तत्रागता द्रुतम् // 68 // ६०-आरासणे स्वप्रतिष्ठितमूलनायकाईद्विम्बानां, चकारात् अर्बुदाविपि महता सङ्घन सह यात्रां कुर्वन् / सीरोहीनगरादिष्वपि आदिशब्दाद बम्भणवाडि-वसन्तपुराधनकतीर्थयात्रां कुर्वन् / चः पुनः स्वर्णशैलीय: स्वर्णगिरिसम्बन्धी यो देशस्तत्र रामसैन्य-भिन्नमालादिषु यात्रां कुर्वन / च: जाबालपुरे चतुर्मासी कुर्वन् / ६१-मरुदेशे मेडताकोट्टे चतुर्मासीद्वयं तदेशे च घंघाणीग्रामे सम्पतिभूपतिकारितार्जुनस्वर्णमयप्रतिमानां, ओसवालानां उत्पत्तिस्थाने ऊकेशनगरे आदिशब्दात् तिमिरीपार्श्वनाथादीनां यात्रां कुर्वन् / ६२-सवालखनामके देशे श्रीनागोरनगरे चतुर्मासी कृतवान् / इत्यादयो ये व्यावर्णिता द्रङ्गा देशाश्च तेषु गुरुर्वृषवद् वृषभ इव अथवा वृषो धर्मस्तद्वत्साक्षाद्धर्म इवाथवा वृषवत्सु पुण्यवत्सु गुरुर्महान् वृषवद्गुरुः श्रीविजयदेवमूरिर्व्यहार्षीत् विहारमकरोत् / अत्र यत्र यावन्त्यः प्रतिष्ठाः कृतास्ता मयाऽन्यगच्छीयत्वात् सम्यग् न ज्ञायन्ते तेन तत्संख्यानं तु तपागच्छीयश्रीविजयप्रशस्तिमहाकाव्यादिभ्योऽवसेयमिति तत्वं / सप्तश्लोकीकुलकव्याख्येति / ६३-इत इत्यधिकारान्तरे। एकदा सदास्वास्थ्यस्य नित्यसुभिक्षादिसुखस्य निबन्धनं कारणं / अत्र एवकारोऽन्ययोगव्यवच्छेदकस्तेन नान्यत्कारणं / आकण्येति श्रुत्वा / शेषं सुगमम् / ६५-यञ्चिन्तितं तदेवाह-सुगमोऽयं नवरं अन्तरान्तरापतत्यपि दुष्काले मरौ अष्टाब्दावधीति अष्टौ वर्षाणियावत् शाश्वतं सुभिक्षमेवाजनीति / अहो इति आश्चर्यसूचकमव्ययम् / ६७-अत्र चकारात् अन्यैरपि श्रीराणकमान्यैः सामन्तामात्यपुरोहितभट्टपण्डितपञ्चोलीप्रमुखैः सूरेः श्रोविजयदेवगुरोः, आकारणायेति मेदपाटदेशे आगच्छन्त्विति विज्ञप्तिः कृतेति तात्पर्यम् / Aho I Shrutgyanam