________________ श्रीषल्लभोपाध्यायविरचितं [पकोनौषशः सुधास्यन्तो विधास्यन्त इव शश्वन्महाजनाः / पीयन्ते गोपयःश्रेयाश्रद्धया यद्वचःसुधाम् // पयसस्यन्ति यस्यैते जना वृजिनवजिताः / वचः शुचि शुचिश्रेयोमयं ज्ञानमयं प्रियम् // 48 सर्वदा ये सुखस्यन्ति दुःखस्यन्ति कदापि न / ऋद्धिस्यन्ति वुधा ये च साम्राज्यस्यन्ति चावनौ। स्तुवन्ति त्वांत एवैव श्रयन्ते च शुभाश्रयम् / त्वदीयं चरणाम्भोज भट्टारकशिरोमणे // 50 // युग्मम् सूरयोऽन्ये महीयांसो गरीयांसो यशस्विनः / स्वस्थत्वं स्वस्वगच्छेषु यथा पुण्यं तु विभ्रति // विभर्ति चक्रिवर्तित्वं तेषु यो जिनशासने / दिव्यं च दानशौण्डत्वमिति तं स्तौति को न विद् / / वर्यैश्वर्यसुशौण्डीर्यशौर्यदार्यादिभिर्गुणैः / सर्वेभ्योऽप्यधिकैः किन्तु धात्रैकत्र धृतैस्त्वयि // 53 // ___-त्रिभिर्विशेषकम् / ४७-व्याख्या:-महाजनाः शश्वत् यद्वचःसुधां श्रीविजयदेवसूरिवचनामृतं पीयन्ते पिबन्ति / पीङ् च पाने चतुर्थस्वरान्तो दिवादिरात्मनेपदी / कथा गोपयःश्रेय:श्रद्धया-नीरोगनिर्मलसर्वदोषापहारिश्रेयस्कारिगव्यदुग्धसमानधर्मश्रद्धया / किं कुर्वन्तः 1 सुधास्यन्त: आत्मनोऽमृतं वाञ्छन्तः / कथंभूता उत्प्रेक्ष्यन्ते-विधास्यन्त इव आत्मन ऋद्धिं वाञ्छन्त इव / यथा ऋद्धिलालसाः आत्मन ऋद्धिमिच्छन्ति तथा महाजनाः आत्मनः सुधामिच्छन्तीत्यर्थः / विधर्द्धिमूल्ययोरिति हैमानेकार्थः / सुधास्यन्तः विधास्यन्त इत्युभयत्र सर्वप्रातिपदिकानां क्यचि / लालसायां सुक असुक् वागम इत्यपरे-इत्युक्तत्वालालसायां क्याच सुगागमे च शतृप्रत्ययः / ४८-एते जना यस्य श्री विजयदेवसूरेः शुचि पवित्रं वचः कर्मतापन्नं पयसस्यन्ति आत्मदुग्धमिच्छन्ति / अस्माकं श्रीविजयदेवसूरिप्ररूपितं वचन दुग्धमित्यर्थः / शेषं स्पष्टं / पयसस्यन्त्यत्र सर्वप्रातिपदिकानां क्यचि, लालसायां असुगागमः / ५०-हे भट्टारकशिरोमणे हे श्रीविजयदेवसूरे त्वां त एव एवं पूर्वोक्तप्रकारेण स्तुवन्ति / चः पुनः त एव त्वदीयं चरणांभोज अयन्ते सेवन्ते, ये सर्वदा सुखस्यन्ति आत्मनः सुखमिच्छन्ति / कदापि न दुःखस्यन्ति आत्मनो दुःखं न वाञ्छन्ति / चः पुनः ये बुधाः ऋद्धिस्यन्ति आत्मनः ऋद्धिं वाञ्छन्तिः / चः पुन: येऽवनौ पृथिव्यां साम्राज्यस्यन्ति आत्मनः साम्राज्य वाञ्छन्ति / सुखस्यन्ति दुःखस्यन्ति ऋद्धिस्यन्ति साम्राज्यस्यन्ति इत्येतेषु चतुर्वपि सर्वप्रातिप्रदिकानां क्याचे, लालसायां सुगागमः / ५३-विट् पुरुषः अथवा विद, विद् ज्ञाने वेत्तीति विद् पण्डित इत्यर्थः / सुशौडीर्यमिति अद्भुतसाहसिकत्वं / अत्र शाण्डीर्यशब्दः तालव्यचतुर्दशस्वरादिः / एकत्रेत्येकस्मिन् स्वयि धात्रा वेधसा धृतैरिति / Aho I Shrutgyanam