________________ सर्गः] विजयदेवसूरि-माहात्म्यम् 115 ईक्षमाणः सहस्राक्षः सहस्राक्षिभिरन्वहम् ! चेन्न तृप्यति यद्वक्त्रं कथं तर्हि जगज्जनः // 39 // अवतारस्त्वदीयोऽयं संसारापारपारदः / अवतार इव श्रेयान् श्रेयस्कारी च सद्गुरो // 40 // अन्येषां सद्गुणान् सम्यक् पश्यतां त्वद्गुणाननु / विश्रामस्थानकं सूरे कवीनां वचसामसि।। ईश्वरीकरणं सत्यं द्योतते त्वयि सम्पति / सर्वीय इव सर्वीयसर्वसर्वगुणाग्रणीः // 42 // चिकीषसि रणं मूरे यद्यमा प्रतिवादिभिः / भजन्ते विकृतं तर्हि तमहो प्रतिवादिनः॥४३॥ चपूर्व प्रतिबुद्धय द्राक् तपूर्व भववारिधेः / मपूर्वं तपसा सिद्धयै शपूर्व ते सुखाप्तये // 44 // त्वं रणं कुरुषे सूरे यदा क्षणमयः क्षणे / श्रुत्वा तं च तदा तं च दधते विविधं बुधाः // 45 // कपूर्व सर्वदायत्तं धपूर्व संयमश्रियः। भपूर्व तपसः शश्वत् वपूर्व शिवयोषितः // 46 // युग्गम्। ४१-किं कुर्वतां कवीनां अन्येषां भट्टारकादीनां सद्गुणान् अनु त्वद्गुणान् अनुत्वद्गुणेभ्यो हीनान पश्यता, अन्यसुरीणां समीचीनान वयं शौयौदार्यगाम्भीर्यादीन गुणान त्वद्गणेभ्यो हीनान् पश्यन्तः कवयो न स्तुवन्तीति कविवचनानां त्वं विश्रामस्थानकं वर्तसे इत्यर्थः / त्वद्गणान् अनु इत्यत्र होने इति सूत्रेण होनेऽर्थे अनुः कर्मप्रवचनीयः / कर्मप्रवचनीयत्वात् होनार्थस्य अनोरव्ययस्य योगे त्वद्गुणान् इति द्वितीया, अनुना सह समासाभावात् पृथक् पदं च / ४२-ईश्वरीकरणं अनीश्वरस्य पुरुषस्य ईश्वरस्य करणं सत्यं त्वयि संप्रति योतते / कस्मिन्निव सर्वीय इव तीर्थक्कर इव इत्यर्थः / सर्वीय इत्यपि जिने इत्यभिधानकोषात् / सर्वीय इव सर्वेषु सर्वैर्गुणैरप्रामुख्यस्तत्सम्बोधनं सर्वीय सर्वसर्वगुणाग्रणीः / ४४-हे सरे यदि प्रतिवादिभिरमा सह विकृतं विकारापन्नं प्रतिवादिप्रतिपादित प्रतीपोत्तरदानात रणं संग्राम वादलक्षणं चिकीर्षसि कर्तुमिच्छसि / तर्हि अहो इति आश्चर्य प्रतिवादिनः तं रणं अविकृतं विकाररहितं भजन्ते सेवन्ते / कथंभूतं रंणं चपूर्व चरणं चारित्रं / किं कृत्वा ? प्राक् प्रतिबुद्धय / पुनः कथंभूतं रणं तपूर्व तरणमित्यर्थः / केन ? तपसा / किमर्थ ? सिद्धयै / पुनः कथंभूतं ? शपूर्व शरणमित्यर्थः / कस्य ? ते तव / किमर्थ ? सुखाप्तये सुखलब्धये / १६-व्याख्या:-हे सूरे त्वं यदा क्षणे व्याख्यानादि सम्बन्धिनि कालविशेषे रणं शब्द कुरुषे तदा बुधाः पण्डिताः प्रतिवादिनः तं रणं श्रुत्वा, चः पुनः, तं रणं विविधं बहुप्रकारं दधते धरन्ति / कथंभूतः त्वं क्षणमयः उत्सवप्रधानः प्रचुरोत्सवो वा / कथंभूतं रणं ? कपूर्व करणमिन्द्रियमित्यर्थः / जातावेकवचनं, पञ्चेन्द्रियाणि अथवा एकं जिह्वेन्द्रियमित्यर्थः / पुनः कथं० ? करणं सर्वदा सर्वकालं आयत्तं वशं निरुत्तरीकरणात् मौनं कुर्वन्तीत्यर्थः / पुनः कथं० रणं ? धपूर्व धरणं संग्रहं / कस्याः संयमाश्रयः / पुनः कथं० रणं ? भपूर्व भरणं पोषणं / कस्य ? तपसः / शश्वत्सदा / पुनः कथं० रणं ? वपूर्व वरणं / कस्याः ? शिवयोषितः / Aho I Shrutgyanam