________________ 114 श्रीवल्लभोपाध्यायविरचित एकोनविंशः अतिशेषेतरां सूरीन् विद्यातेजोगुणादिभिः / राजन्तकि महान्तोऽपि सूरयोऽन्ये त्वदग्रतः // 27 गुणैरित्यादिभी रम्यैर्गुरुरत्नैरिवार्णवः / विजयदेवसूरीन्द्रः साक्षादर्हन्निवावति // 28 // सत्यवादी सदावादी नोन्मादी न च दुर्मदी / न प्रमादी मृषावादी न वादे प्रतिवादिभिः // 29 प्रतिवादी जनोऽवादीद् यशोवादीति यद्यशः स्याद्वादवादमानन्दी वावदीति स सद्गुरुः||३० यशोभग्योऽतिसौभाग्याज्जगज्जनयशस्विषु / वेशोभग्योऽसि सूरे त्वं निखिलेषु बलिष्वपि // 31 अयं सरिर्जगत्राता पाता दुर्गतिपाततः / प्रमाता सत्पदार्थानां दाता चार्थान् मनीषितान् // 32 सरिः सरिरयं यत्र तत्र न पटु पटुपेटकम् / यत्र तिष्ठेद् हरिस्तत्र स्यात्कि करटिपेटकम् // 33 // विरटत्यारटत्येव पटुकूटं कटूत्कटम् / दृष्ट्वा सद्गुरुं सिंह कूटं करटिनामिव // 34 // निराचकार निस्साराननगारांश्चिराय यः / उग्राचारक्रियाकारः सोऽभूदाचारतत्परः // 35 // प्रामुयात् कः खगोऽनन्तं मेरुमुत्पाटयेच कः / कस्तरेत्तारकः सिन्धुं सरे कः स्तौति ते गुणान् / / सहस्रद्वितयेनापि जिह्वानां नागनायकः / स्फुटान् स्फटान् सहस्रं च धरन् शिरसि सन्ततम् // यदीयानि प्रशस्यानि विशदानि यशांसि हि / शेषो वक्तुं न शक्नोति को वराकोऽहमुत्सुकः।। २७-भो श्रीविजयदेवसूरे ! त्वं विद्यातेजोगुणादिभिः सूरीन् अर्थात् पूर्वभट्टारकान् अतिशेषेतरां अतिशयेन अतिशयं प्रापयासि / अत एव त्वदग्रतो महान्तोऽपन्ये सूरयो राजन्तकि कुत्सितं शोभन्त इत्यर्थः / व्याख्यातिरूपं ब्रुवन्तिरूपमित्युभयत्र प्रशंसायां रूपप् इति तिङो. नुवृत्तस्तिङन्तादपि रूपपप्रत्ययः / शृण्वन्तितरां अतिशेषेतराामित्युभयत्र किमेतिङव्ययेऽतितरप्तमपौ घ इति सूत्रेण घसंज्ञकस्य तरप् प्रत्ययस्य आमुः / व्याख्यान्ताक अवन्तिकि राजन्ताक इति त्रिषु सुबन्तस्य तितोऽनुवृत्तः कुत्सितेऽर्थेऽकच् प्रत्ययः / ३०-स सद्गुरुः श्रीविजयदेवसूरिः स्याद्वादवादं वावदीति आतिशयेन वदति / स कः ? यद्यशः प्रतिवादी जन इति अवादीत् अकथयत् / कथं० प्रतिवादीजनः यशोवादी। इतीति किं ? किं भूतः सद्गुरुः सत्यवादी / पुनः कथं० सदावादी षड् दर्शनानां मध्ये मुख्यवादि. त्वात् / शेष स्पष्टं / पुनः कथं ? प्रतिवादिभिरिह सहयोगं विनापि तृतीया, वृद्धो यूनेति निर्देशात् / ततोऽयमर्थः-प्रतिवादिभिः सह नैयायिकादिपञ्चदर्शनसम्बन्धिभिः सार्ध वादे न प्रमादी न प्रमादवान् न मृषावादी न कूटभाषकः / ३१-यशः माहात्म्यं सत्त्वं श्रीः ज्ञान प्रतापः कीर्तिश्चेति हैमोणादिः, श्रीकामप्रयत्नगाहात्म्यवीर्ययशसां भगशब्दः / यशोभगोऽस्य विद्यते यशोभग्यः, वेश इति बलमुच्यते वेशो बलं भगो विद्यतेऽस्य वेशोभग्यः / अत्र उभयत्र वेशो यश आदेर्भगाद्यल् इति मत्वर्थे यल् प्रत्ययः लकारः स्वरार्थः / Aho I Shrutgyanam