________________ 113 सर्गः] विजयदेवसूरि-माहात्म्यम् इत्यादिका महीयस्य शाखाः शाखन्ति सर्वदा / यत्तपागच्छगच्छस्य विख्याता जगतीतले॥१२ श्रीपण्डितपदाद्यम्बुधारान्दैरिमा गुरो / श्रीतपाकल्पसक्षमूलं सिञ्चस्त्वमेधय // 13 // मालाकारानिव श्राद्धांस्तत्मपालनतत्परान् / मरिमन्त्रप्रभावाशीविय सद्गुरो // 14 // एधतां श्रीतपागच्छो दीप्यतां सवितेव च / तेजसा सरिमन्त्रस्य त्वदीयस्य च सर्वदा // 15 // महीयान् श्रीतपागच्छः सर्वगच्छेषु सर्वदा / सर्वदा सर्वदाता च पर्वतात्सर्ववाञ्छितम् // 16 // राजान इव विद्यन्ते श्रावका यत्र सर्वदा / नन्दताच्छ्रीतपागच्छः सततं सततक्षणः // 17 // यत्र त्वमीदृशः सूरिर्वतसे गच्छनायकः / स्तूयसे चेति विद्वद्भिः पातिसाह्यादिभिनृपः // 18 // इतीति किं तदाहउल्लसन्ति भुवि व्योनि सूरयस्तारका इव / एकैकतो महीयांसो जाग्रज्योतिष उद्गताः // 19 // विच्छायीकृत्य तान् सर्वान् राजते सवितेव यः। विजयदेवसूरीन्द्रस्तपागच्छे स वर्तते // 20 // भूरयः सूरयः सन्तो भूतलेऽभ्युदिता दिवि ! यत्प्रतापरविध्वस्ता न प्रेक्ष्यन्ते ग्रहा इव // 21 // यत्राय दीप्यते सूरिः मूरयस्तत्र नापरे / यत्र सूर्यस्सदोदेति तत्र स्युस्तारकाः कथम् // 22 // (तत्र किं चन्द्रतारकाः' इति वा पाठः / ) त्वं सरिर्वासरो यत्र न निट् तत्रान्यसूरयः / सदोद्योतः सदोबोधः पदार्थानां नवो नवः // 23 // प्रातः सूरियंदा यत्र प्ररूपयति सदृषम् / प्रत्यक्षोऽयं महादेव इति माहुस्तदा जनाः // 24 // व्याख्यातिरूपमुत्कर्षात् शास्त्रार्थान् मरिशेखरः।। - व्याख्यान्तकि वरव्याख्यां व्याख्यातारोऽन्यसूरयः // 25 // शास्त्रार्थीस्तन्मुखमोक्तान ये शृण्वन्तितरां नराः / ब्रुवन्तिरूपमेवं ते ब्रुवन्तकि परे बुधाः // 26 १६-पर्व पूरणे भ्वादिः परस्मैपदी। २४-सूरियंदा यत्र प्रासः सदृषं प्रधानं पुण्यं दानादिचतुर्विधं प्ररूपयति कथयति तदा जनाः अयं प्रत्यक्षो महादेव इति प्राहुः कथयन्ति / महादेवो हि सवृष प्रधानवृषभं प्रकृष्ट. रूपं करोतीत्यर्थः / तत्करोति तदाचष्टे इति चुरादित्वात् सुबंताणिच् ; अथवा सवृषं विद्यमानवृषभं प्ररूपयति प्रकृष्टरूपं पश्यति / अत्र दर्शनार्थे णिच् / २५-सूरिशेखरः श्रीविजयदेवसूरिः सूरिशिरोवतंसः शास्त्रार्थान् व्याकरणसाहित्यालकारच्छन्दस्तर्कप्रमुखानेकशास्त्रार्थान् उत्कर्षात् व्याख्यातिरूपं प्रशस्तं व्याकरोतीत्यर्थः। व्याख्यातारोऽन्यसूरयः वरव्याख्या शास्त्राणां प्रधानव्याख्यानं व्याख्यान्तकि कुत्सितं व्याकुर्वन्तीत्यर्थः / २६-ये नरास्तन्मुखप्रोक्तान श्रीविजयदेवमूरिमुखप्ररूपितान शास्त्रार्थान् शृण्वन्तितरा अतिशयेन शण्वन्ति, ते नरा एवं अवन्तिरूपं प्रशस्तं कथयन्ति / एवमिति किं तदाह-परेऽन्ये बुधाः शास्त्रार्थान् ब्रुवन्तकि कुत्सितं कथयन्तीत्यर्थः / Aho I Shrutgyanam