________________ एकोनविंशः सर्गः अथ श्रीकल्पशाखीव शाखाभिरभिशाखिकाः। संतुष्टोऽयं समृनोतु विद्यमानाभिरन्वहम् // (-शाखनाज्जगतीं जाग्रजगज्जगदधीश्वरः-इति वा पाठः) सर्वान् विजयते शत्रून् अस्त्यस्याविजयोऽथवा / विजया प्रथमा शाखा ज्यायां विजयते सदा॥ सुन्दरा सद्गुणैः सर्वैस्तपःप्रभृतिभिर्भृशम् / शोणादिगणपाठात् स्यात् सुन्दरीत्यपि डीपि च // निरतीचारचारित्रतपोविद्यादिभिर्गुणः / वल्लभा निर्मला चैव हंसा हंस इवोदिता // 4 // मलते सर्वशास्त्राणां परमार्थ विशेषतः / जगत्यां च यशः शस्यमित्युक्ता विमला बुधैः // 5 // चन्द्रवत्सर्वलोकानां चन्द्रोक्तालादनात्वतः / सदा कुशलसंयोगात् कुशला कुशलप्रदा // यस्यामुत्पन्नसाधुभ्योऽर्हद्धर्मों रोचते सदा। सच्छास्त्राध्ययनं चाग्रं रुचिस्तेनोच्यते बुधैः // 7 // सद्विद्यालक्षणां लक्ष्मी गृणातीत्यचि सागरा। सौभाग्यं सर्वदास्त्यस्यां सौभाग्येति बुधैः स्मृता // 8 // सर्वेषां हर्षहेतुत्वात् हर्षोऽस्त्यस्यां च शाश्वतम् / अस्त्यर्थप्रत्ययाकारयोगाद् हर्षी निगद्यते।। कलाभिः सहिता नित्यं सकलेत्युच्यते बुधैः / सर्वदोदयसम्बन्धादुदयेत्युद्यते जनैः // 10 // आनन्दति सदानन्दैः सर्वविद्याविनोदतः / आनन्देति समाख्याता सारासारप्रभावतः // 11 // १-अयं श्रीविजयदेवमूरिः श्रीकल्पशाखी शास्त्राभिरन्वहं समृनोतु वर्धतामित्याशीर्वादः। कथंभूतः अयं ? शाखिकाः अभिशाखाः, अभिलक्षीकृत्य संतुष्टः, आभिरभागे इति लक्षणेऽर्थे अभीत्यव्ययस्य योगे शाखिका इत्यत्र द्वितीयाबहुवचनम्, अव्ययीभावसमासाभावात् / अव्ययीभाव. समासे तु लक्षणेनाभि प्रती आभिमुख्ये इति अव्ययीभावे, अव्ययीभावश्चेति अव्ययीभावस्य नपुंसकत्वे, नपुंसकत्वाद् हस्वत्वे अभिशाखिकमिति स्यात् / शाखा: अभि लक्षीकृत्येत्यर्थः / शाखा एव शाखिकाः। सर्वशब्देभ्यः स्वार्थे कन्निति कनि, केण इति इस्त्रे, प्रत्ययस्थात्कारपूर्वस्यातः इदाप्यसुप इति अकारस्य इकारः / एवं कल्पशाखि विशेषणमपि व्याख्येयम् / शाखताजगी जाग्रजगजगदधीश्वरः-इति पाठे जगदीश्वरः श्रीविजयदेवमूरिः शाखाभिः जगल्लोकं शाखतात् व्याप्नातु / क: को इव श्रीकल्पशाखीव, कां जगती, यथा कलशाखी जगतीं व्याप्नोति तथा श्रीविजयदेवमूरिरपि / ज्यायां पृथिव्यां विजयोऽस्तीति प्रथमा विजया शाखा / ३-सुन्दरा सुन्दरीति अस्त्यर्थप्रत्ययाऽकारयोगात् सुन्दरा, शोणादिगणपाठात् ङीपि सुन्दरी / ९-अस्त्यर्थे प्रत्ययः अस्त्यर्थप्रत्ययः स चासौ अकारश्चेति अस्त्यर्थप्रत्ययाकारस्तस्य योगः सम्बन्धस्तस्मात् / १०-कलाश्चातुर्यादयस्ताभिः। Aho I Shrutgyanam