________________ सर्गः] विजयदेवसूरि-माहात्म्यम् तपः मूरिजंगचन्द्रो वर्षाणि द्वादशाकरोत् / तत्तपोऽवधिवर्षाणि लुप्त्वा यस्तमुतोऽजयत् // 18 // तपसां संविधानेन मर्यादावजितेन हि / न कृतेन पुरा कैश्चिन्महद्भिः पूर्वसूरिभिः // 19 // तपसा क्रियया चोग्रं प्रत्यक्ष्यं वीक्ष्य सद्गुरुम् / विस्मरन्ति धनागारं श्रुतं दृष्टं न कहिंचित् / / करोत्याशातनामस्य यः पुमान् कोऽपि पापधीः / लभते स कलावेव सकलाङ्गेषु वेदनाम् // 21 // सेवन्ते ये नरा नित्यं सत्येनैव च चेतसा / साम्राज्यादि लभन्ते ते यं गुरु सुरसन्निभम् // 22 // यादृशोऽतिशयोऽस्यास्ति नान्येषां तादृशः कलौ। सेवाविधायिनां पुंसां सौख्यदो दुःखनाशकः॥ पराङ्मुखानां लोकानां पराङ्मुखमुखपदः / दुर्मुखानां सदा मातमुखानामिव दुःखदः॥२४॥ यस्य प्रभावतो बद्धमुखा वाक्पतयोऽद्भताः / ये च मातृमुखास्ते च समुखाः स्युः सुसेवकाः // 25 दरिद्रा अदरिदेन्द्रा रोगिणोऽरोगिणोऽपि च / धनिनो धनिनामीशा नीरोगा भोगभोजिनः // यस्यास्यैकावतारित्वं लघुकर्मत्वतः किल / सम्भावयन्ति सर्वेऽपि कवयो भविका अपि // 27 // एष देवभवादेवावतीर्ण इति निर्णयात् / दृढसंहननाङ्गत्वात्तप ईंग करोति यत् // 28 // नित्यं पद्मासनादीनि यः करोत्यासनानि च। चतुरः प्रहरान यावद् ध्यानं ध्यायति च ध्रुवम् // इत्थं लसच्छ्री विजयादिदेवसूरीश्वरश्रीसुकृतोपदेशान् / / शृण्वन्ति कुर्वन्ति च भव्यलोकाः श्रीवल्लभः पाठक इत्यपाठीत् // 30 // इतिश्री श्रीबृहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीयपाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराज पातिशाहि श्रीअकब्बरप्रदत्तजगद्गुरुबिरुदधारक श्रीहीरविजयसूरीश्वरपट्टालंकार पातिशाहि श्रीअकब्धरसभासंलब्धदुर्वादिजयवाद भट्टारक श्रीविजयसेन सूरीश्वरपट्टपूर्वाचलसहस्रकरानुकारि पातिशाहि श्रीजिहांगीरप्रदत्तमहातपाविरुधारि श्रीविजयदेव. सूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनान्नि महाकाव्ये श्रीविजयदेवसूरिधर्मोपदेशश्रवणाङ्गीकरणवर्णनो नाम अष्टादशः सर्गः // 18 // २५-२६-ये सुसेवका अबद्धमुखाः दुर्मुखाः लबाड इति भाषाप्रसिद्धास्ते यस्य श्रीविजयदेवसरेः प्रभावतो अद्भुताः वाक्पतयः प्रधानवक्तारः स्युः। दुर्मुखे मुखराबद्धमुखौ इति / वागीशो वाक्पती इत्युभयं हैमकोषः। चः पुनः। ये सुसेवकाः मातृमुखा मूर्खाः ते च समुखाः वाचोयुक्तिपटवः स्युः। अथ बालिशः मूढो मन्दो यथाजातो बालो मातृमुखो जडः इति / वाग्ग्मी वाचो युक्तिपटुः प्रवाक् संमुखो वावदूकः-इत्युभयं हैमकोषः / समुखदन्त्याद्यस्वरादिरेव / ये इति पदं, ते इति पदं, सुसेवका इति च पदं अग्रिमेऽपि श्लोके योज्यम् / यथा ये सुसेवकाः दरिद्राः ते यस्य प्रभावत अदरि. देन्द्राः धनिनः स्युः। ये सुसेवकाः रोगिणस्ते यस्य प्रभावतो अरोगिणो नीरोगाः स्युः / ये सुसेवकाः धनिनस्ते यस्य प्रभावतो धनिनामीशाः धनीश्वराः स्युः / ये सुसेवका नीरोगास्ते च यस्य प्रभावतः भोगभोजिनः स्युः / भोगान भुञ्जन्तीत्येवं शीलाः भोगभोजिनः / युग्म-व्याख्यानम् / -- MKARACHNA- - - Ahol Shrutgyanam