________________ अष्टादशः सर्गः अथ यस्य सदानन्दात् कुर्वन्त्यादरतः सदा / स्वर्णरूप्यादिभिः पूजां नवाङ्गानां वरागिनः॥१ प्रतिग्राम प्रतिद्रङ्ग धर्मरङ्गेण धर्मिणः / नीलीरागा गुणग्रामान गायन्तो गुणरञ्जिताः॥२॥ युग्मम् / यदीयवचसा भव्याः कारयन्ति दिने दिने / बिम्बानि विविधान्यत्र स्वर्णरूप्यमयानि च // 3 // प्रासादान् विविधान नव्यान् जीर्णोद्धारांश्च सुन्दरान् / यदीयवचसा श्राद्धाः कारयन्ति दिने दिने॥ तद्वर्ष नास्ति यस्मिन्न प्रतिष्ठास्यात्कदाचन / करोति चाकरोत्कर्ता प्रतिष्टां च स सद्गुरुः / / 5 / / याः प्रतिष्ठाः कृताः पूर्व द्रङ्गशत्रुञ्जयादिषु / नालभै सर्वथा तासां संख्यां यावदियत् क्षणम् // 3 // शत्रुअयादितीर्थानां यात्रां कर्तुं यदुक्तितः / सद्भुगन् कुर्वन्त्यकुर्वश्च करिश्चोत्सवाजनाः // 7 // साधवः श्रावकाश्चान्ये सद्धर्म साध्नुयुः सदा / उपाश्रयानिति श्रेयोयुद्धया श्राद्धाश्च कुर्वते // 8 // अकुर्वैश्च करिष्यन्ति यद्वचः प्रेरिता भृशम् / व्ययित्वा प्रचुरं द्रव्यं सत्सुधर्मसभा इव // 9 // सत्साधर्मिकवात्सल्यं श्रावका भावभासुराः / सर्वं कुर्वन्ति सर्वत्र यत्पवित्रवचोधुताः // 10 // व्याख्यानागमनादौ च यस्यानेहस्यहनिशम् / प्रभावनां प्रकुर्वन्ति रूप्याद्यैः श्रावका मुदा // 11 // प्रक्षिप्य मोदकाद्येषु छन्नं रूप्यादिकं धनम् / ददति श्रावकादिभ्यः श्रावका यदृषश्रुतेः // 12 // श्रीमत्पर्युषणापर्वदिवसेषु नवस्वपि / व्याख्यानेषु च कुर्वन्ति यन्नवाडाचनं जनाः // 13 // चौरादिबन्दिलोकानां छोटनं कुर्वते नृपाः। विना स्वं वचसा यस्य श्रावकान्यजनस्य च // 14 // अन्यद्रव्यसुवस्त्रादिगुप्तदानं सदा जनाः। ददति श्रावकादिभ्यो यस्य शस्योपदेशतः // 15 // जन्तुमात्रदयां लोकास्तुरुष्का दुष्टचेतसः / पालयन्ति यदीयेन वचसा शुद्धचेतसा // 16 // कथनीयं किमन्येषां हिन्दभूमिभुजां खलु / सदा धरित्र्यां सर्वत्र जन्तुमात्रसुखपदाम् // 17 // ३-चकारात् पित्तलस्फटिकपाषाणादिमयानि | ६-क्षणशब्दः कालविशेषस्य पर्यायोऽपि सामान्यविशेषयोरभेदोपचाराद् अत्र कालपर्यायो व्याख्येयः / अथवा क्षणः अवसरः / यदनेकार्थ:-क्षणः कालविशेष स्यात्, पर्वण्यवसरे महें इति / इयांश्चासौ क्षणश्च इयत्क्षणस्तं इयरक्षणं यावत् षोडशशतकोननवतितमव यावद् इत्यर्थः। ७-जनाः श्रावकलोका इत्यर्थः / ९-कथंभूतान उपाश्रयान् / सत्सुधर्मसभा इव सत्सुधर्मशाला इव इत्यर्थः / अशाला चेति सभाशब्दस्य अत्र शालार्थत्वात्तत्पुरुषेन क्लीवलिङ्गता / लिङ्गभेदं तु मेनिरे इति वचनात् भिन्नलिङ्गोपमापि न दोषाय / १४-श्रावकाश्च अन्यजनाश्च श्रावकान्यजनमिति समाहारो द्वन्द्वस्तस्य / Ahol Shrutgyanam