________________ सर्गः] विजयदेवसूरि-माहात्म्यम् पातिसाहि-जहांगीर-महातपा अयं गुरुः / विजयदेवसूरीन्द्र इति ख्यातोऽभवद्भुवि // 42 // श्रीजिनशासनस्यास्य तपागच्छस्य चाद्भुतः / अभवन् महिमा ज्यायान् श्रीपूज्यस्यापि च / / पातिसाहिरथापृच्छत् श्रीचन्दं संघनायकम् / तस्मिन् रात्रिंदिवे चैवं गोसलखानसंस्थितः / / एवमिति किं तदाह-भो चन्दूस्त्वमथातुष्य उत नो वेति मां बद। अतुष्यमिति सोऽवादीत् पातिसाहि प्रति स्फुटम् // 4 // पातिसाहे चिरं जीव धुर्य न्यायवतां सदा / रामराज इव न्यायं त्वं व्यधा विबुधाग्रणी // 46 // अहं कथमतुष्यं नो समतुष्यं विशेषतः। धर्मन्यायविधानाद्यत् सर्वस्तुष्यति सज्जनः॥४७॥ युग्मम। पातिसाहिरिति प्राह लोकभूपसमक्षकम् / सर्वेषां गुरुरेषोऽस्तु सर्वस्वामी च सर्वदा // 48 // समस्तपूर्वसूरीन्द्रपरम्पराक्रमाश्रितः / यथाहं पातिसाहीनां क्रमायातस्तथा ह्यसौ // 49 // वर्तते दीप्यते चोर्ध्या सर्वसरिशिरोमणिः / हिन्दू-तुरुष्कभूपालमौलिचूडामणिः सदा // 50 // अतः समस्ता भो लोका मन्यन्तामिममुत्तमम् / समस्तारिं समस्तानां मामिव प्रभुतोन्नतम् // पातिसाहिरभाषिष्ट वारं वारमिति स्फुटम् / मत्तोऽप्यधिकतेजस्वी यद्वर्ते वशवत्यहम् // 52 // कुपितः कोऽपि पापीयान् कोपतः कोपपूरितः / भविष्यति सदा दुःखी स एतस्मात्पराङ्मुखः / / धन्योऽयं कृतपुण्योऽयं तपस्तेजःसमुच्चयः / दर्शनेषूत्तमं चास्य दर्शनं सुखकारि यत् // 54 // एवं प्राशंसतानेकभूपलोकसभास्थितः / पातिसाहि-जहांगीर-शिलेमसाहिरहो गुरुम् // इत्थं प्राप महातपाविरुदकं श्रीपातिसाहेमुखाद् यः श्रीमद्विजयादिदेवसुगुरुः सोऽयं सदा दीप्यताम् / श्रीश्रीवल्लभपाठकेन कविना व्यावणितं सर्वतः श्रोतश्रोत्रसुखप्रदं सुविशदं सत्योक्तितः सर्वदा // 56 // इतिश्री श्रीबहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीय पाठकश्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराज पातिशाहि श्रीअकबरप्रदत्तजगद्रुविरुधारक श्रीहीरविजयसूरीश्वरपट्टालङ्कार पातिशाहिश्रीअकबरसभासंलब्धदुदिजयवाद भट्टारक श्रीविजसेनसूरीश्वरपट्टपूर्वाचलसहस्रकरानुसारि पातिशाहि श्रीजिहांगीरप्रदत्त महातपाविरुदधारि श्रीविजयदेवसूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजयदेवसूरिलब्धजहांगीरमहातपाविरुदवर्णनो नाम सप्तदशः सर्गः // 17 // ४८-सर्वेषां एतद्च्छीयसाधुश्रावकलोकानां सर्वस्वामी साधुसाध्वीश्रावकश्राविकाजिनप्रासादोपाश्रयादिस्वामी सर्वदा एष विजयदेवसूरिरस्तु / Ahol Shrutgyanam