________________ 108 श्रीवल्लभोपाध्यायविरचितं [ सप्तदशः पातिसाहिरिति श्रुत्वा स्वमतुष्यत्स्वचेतसि / अस्ति स्वस्ति गुरोः कार्य प्राक्षीदिति च तं प्रति // चन्दूश्चन्दसमं सौम्यात् इहाद्वय तमानय / पादौ गोष्ठी च धर्मस्य नमानि न विदधानि च // 22 आश्विनस्यावदातस्य चतुर्दशदिने शुभे / मध्याह्न तसबीखानास्थाने सरिवरोऽव्रजत् // 23 // पातिसाहिस्तदोत्थायाभ्यागत्य च पदत्रयम् / अभ्यवन्दत पादाब्जं श्रीसूरेः पुण्ययोगतः॥२४॥ तपस्तेजस्विनं सुरिं द्रष्ट्येति व्यस्मयत्तराम् / अहो धन्योऽयमीक्षः साक्षादेष तपस्तनुः // 25 // कथमीक्षकायोऽयं ज्योतीरूपं दधत्सदा / कथमीदृग् तपः कृत्वा धर्ता पुष्टिं तनौ तनुः // 26 // स्वागतादिकसद्वार्ता समपृच्छत्पुनः पुनः / सद्वान्धव इव स्नेहात्पातिसाहिर्जगद्गुरुः // 27 // धर्मगोष्ठी वरिष्ठात्मा गरिठेन गुणः सदा / श्रीमूरिणा सह श्रीमान् पातिसाहिव्यंधाद् रहः।। राज्याहारपरित्यागं साध्वाहारविधि पुनः / अपृच्छच्चापरं साधु साध्वाचारं स सद्गुरुम् // 29 राज्याहारपरित्यागविधानसुफलाफलम् / अवदच् छ्रीगुरुः सर्वमन्यदपि च नं प्रति // 30 // कृत्वैवं धर्मसद्गोष्ठी पातिसाहिरमोदत / श्रेयानेतस्य धर्मोऽयमवादीदिति चाद्भुतम् // 31 // इतीति किं तदाह-तपाबिरुद इत्यस्ति भवतां प्राक्तनस्सदा। सदातस्त्वं मदुक्तोऽसि जहांगीरमहातपाः // 32 // विजयदेवसूरीन्द्रमन्वन्ये सूरयो भुवि / तपस्विनोऽपि विद्वांसः क्रियावन्तश्च सर्वदा // 33 // युग्मम् // उत्सूत्रभाषिणो ये च तदीयाः प्रतिवादिनः / पातिशाहिःसमस्तांस्तान् सर्वथा हि निराकरोत् / / महातपा इति ख्यातः शब्दः सिद्ध उणादिषु। सार्थकस्त्वद्य विख्यातस्त्वय्येवान्यत्र नैव च // 35 // पातिसाहिरिति प्रेम्णा निवेद्य विरुदं मुखात् / चन्दसंघपति माह कुर्वित्यस्य महोत्सवम् / / तद्यथा-सन्ति सर्वाणि वाद्यानि गृहीत्वा तानि मेऽधुना। __ वादयन् स्थानतोऽस्मात्तं नायय त्वमुपाश्रयम् // 37 // निवेद्य करवाणीति सद्यश्चन्द्रुदारधीः / पातिसाहिं प्रसादालोचनं लोचनोत्सवम् / / 38 // पातिसाहेः समस्तानिसंगृह्यातोद्य सञ्चयम् | महाजनान् समाकार्य वर्योत्सवपुरस्सरम् // 39 // पुरस्तात्सद्वाक्षस्य पातिसाहेढाग्रहात् / सम्भूयानेकसल्लोकविलोकितमुखाम्बुजम् // 40 // विजयदेवसूरीन्द्रमण्डपोपाश्रयं मुदा / आनयन्नयतो नित्यं जितविद्वेषिदुर्जनम् // 41 // -चतुभिः कलापकम् / २१-तं प्रति श्रीचन्दुं प्रति / २२-रेफहीनश्चन्दशब्दश्चन्द्रपर्यायः उज्वलदत्तौगादौ / ३०-रात्र्याहारपरित्यागस्य सुफलं शोभनं लाभं स्वर्गादि, राज्याहारविधानस्य अफलं फलविरोधिनं लाभं पापं नरकगत्यादि / न फलं अफलं विरोधेऽत्र नञ् / ३३-अन्ये सूरयो भुवि विजयदेवसूरीन्द्रमनु हीना इत्यर्थः / एवं तपस्विनोऽपि हीनाः, विद्वांसो हीनाः, क्रियावन्तश्च होनाः / होने इति होने द्योत्ये अनु इत्यस्य कर्मप्रवचनीयसज्ञत्वात् विजय देवसूरन्द्रिामति द्वितीया। Ahol Shrutgyanam