________________ सप्तदशः सर्गः अथात्रावसरे श्रीमन्मण्डपं सर्वसम्पदाम् / पत्तनं मण्डपं नाम बाभात्युत्सवमण्डपम् // 1 // पातिसाहि-जहांगीर-सिलेमसाहिरुत्तमः / हिन्दू-तुरुष्कभूपालनायकस्तत्र शोभते // 2 // पातिसाहिसभासीना विद्वांसोऽन्ये जना अपि / दर्शनानां शुभां षण्णां धर्मवार्ती जगुमिथः॥३ तद्यथा-दर्शनेष्वेषु सर्वेषु जैन दर्शनमुत्तमम् / दानं तपः क्रियाक्रूरा शीलं श्रेयश्च यत्र यत् // 4 // तत्रापि साम्पतं भाति विजयदेवसद्गुरुः / कुर्वन्नुग्रं तपश्चोग्रां क्रियावत्पुङ्गवः क्रियाम् // 5 // उग्रत्वं तपसः श्रुत्वा क्रियायाश्च यतिव्रजे / पातिसाहिर्जहांगीरोऽन्यदेति प्रत्यपादयत् / / 6 / / इतीति किं तदाह-भो चन्दुः संघप ! कासि धर्माचार्यस्तवाधुना। विजयदेवसूरीन्द्रो नाऽमिलत्स कथं च नः // 7 // तदा चन्दरिति प्राह पातिसाहिं कृताञ्जलिः / अस्ति सम्पति सूरीन्द्रः स्थम्भतीर्थे गुरुर्मम // 8 // पातिसाहिरिति श्रुत्वा प्राह चन्दं प्रतीति च / विजयदेवसूरीन्द्रं समाह्वय ममाज्ञया // 9 // फुरमाणं तदालेख्य सुरेराह्रानसूचकम् / चन्दसंघपतेर्हस्ते पातिसाहिरदान्मुदा // 10 // अवदद्वदनाचेत्थं मदीयमहदीं वरम् / मुश्च सूरीश्वराहानहेतवे मुखहेतवे // 11 // युग्मम् // ततश्चन्दुः समाहूय तदा सदहदीं द्रुतम् / स्फुरन्मानं स्वहस्तेन तद्धस्ते च समापयत् // 12 // अचालीदहदीः शीघ्रं ततः सन्तुष्टमानसः / स्थम्भतीर्थपुरं मानोत् समामोत् स्वेहितानि च // प्रणम्य शिरसा सूरि स्फुरन्मानं समार्पयत् / वाचं वाचं गुरुः सङ्घ श्रावं श्रावं त्वमोदत // 14 // प्रीतिदानं तदा प्रादाजीवितार्हमनेकधा / संघः श्रीस्थम्भतीर्थस्य तुष्टः किं किं ददाति न // 15 विहारो नोचितः साधोश्चतुर्मासे कदापि हि / तथापि कारणे कार्य उक्तिरस्त्याहतीति च // (-जैनीत्युक्तिश्च वर्तते-इति वा पाठः) // 16 // शास्त्रार्थमवधायेति निवेद्य च महाजनान् / महालाभं च विज्ञाय श्रीमूरिरचलत्ततः // 17 // अर्जयनध्वनि श्रेयः प्रापयंश्चापरान् जनान् / व्यापारीव सुवस्त्वोघलाभं ग्रामादिकं प्रति // 28 // मण्डपं नगरं मूरिः पामोद्दिव्यमहोत्सवैः / आश्विनस्यावदातस्य दिवसे हि त्रयोदशे // 19 // ततश्चन्दुः प्रसन्नात्मा पातिसाहिं न्यवेदयत् / आगतो भवदाहृतो विजयदेवमूरिराट् // 20 // १४-तुरत्र पुनरर्थे / तेन गुरुः श्रीविजयदेवसूरिः वाचं वाचममोदत / तु पुनः सङ्घः श्रीस्तम्भतीर्थश्रावकगणः श्रावं श्रावं श्रुत्वा श्रुत्वा अमोदत / वाचं वाचं श्रावं श्रावमित्युभयत्र आभीक्ष्णे णमुल चेति णमुल्, नित्यवीप्सायां द्विरुक्तिश्च / १७-ततः श्रीस्तम्भतीर्थात् / Ahol Shrutgyanam