________________
१०४ श्रीवल्लभोपाध्यायविरचितं
[षोडशः प्रसाद्याहम्मदावादसंघमापृच्छय च ध्रुवम् । महान्तो हि न कस्यापि विषादं कुर्वते किल ॥२३ श्रीमतः स्तंभतीर्थस्य संघः सन्तुष्टमानसः । मूरि वरमिवादाय स्थंभतीर्थमुपागमत् ॥२४॥ आहोपुरुषिकां विभ्रदथाहपूर्विकां पुनः । अहमहमिकां कुर्यन् इति संघोऽवदन्मिथः ॥२५॥ इतीति किं तदाह-स्थंभतीर्थपुरावेशमहोत्सवमहो गुरोः।
करिष्याम्येव मुख्योहं करिष्यति भवान् कथम् ॥२६॥ अस्मिन्नवसरे संघमुख्यः त्यातः क्षितेस्तले। शोभते जिननासोऽसौ रत्नामीपालसोदरः॥२७ पादजाहं स आगृह्य संघमाख्यदिति स्फुटम् । पूःप्रवेशोत्सवं श्रीमत्करचे भवदाज्ञया ॥२८॥ तदा संघः समस्तोऽपि प्रसद्येति तमादिशत् । परित्यज्य मिथश्चित्तादाहोपुरुषिकादिकम् ॥२९॥ इतीति किं तदाह-विजयदेवसूरीन्द्रपूःप्रवेशमहोत्सवम् ।
जिनदास विधेहि त्वं संघादेशोऽस्ति ते स्फुटम् ॥३०॥ पूःप्रवेशोत्सवस्याथ सामग्रीमग्रिमामिमाम् । श्रावको जिनदासोऽसौ व्यधागहुविधां शुभाम् ।। तद्यथा-पूर्णकुंभानिवाभीष्टसर्वसिद्धिप्रसाधकान् । व्यधापयच शुभाकारान् पूर्णकुंभान् स सत्वरम्।। स्वर्णरूप्यमयान् नव्यान् दिव्यान् रत्नावलीयुतान् । अलतानलङ्कारैः पूजितान् कुंकुमादिभिः ।। उपर्युपरि कौशेयवासांसि दधतोऽद्भुतान् । स्फुर्जन्नेजान् स राजच्छ्रीराजमानानकारयत् ॥३४ दधती रुचिरं रूपमिन्द्राणीः काश्चिदङ्गनाः । धर्तु मुर्द्धसु सत्पूर्णकुंभान् व्यरचयच्च सः॥३५॥ मौक्तिकस्वर्णसंधमालम्बनकशोभितान् । अपहर्तनातर्ष श्रेष्ठी चन्द्रोदयानकारयत् ॥३६॥ मुक्ताभिः संस्कृतैः शस्तैः स्वस्तिकैः सहितान् शियः। पूर्णकुंभान्वितेन्द्राणी मृामुपरिरक्षितुम् ।। जिनदासोऽथ लोकानां सर्वेषां मुखकाम्यया । रथानःशिविकादीनि यानान्यानाययगृतम् ॥ तद्यथा-अदृष्याद्दिव्यवैदुष्यात् पुष्यं पुष्यरथोचयम् । सच्छायं छत्रिकोपेतं कौशेयादिभिराकृतम्।। उपवेशाय केषांचित् शकटान् सौख्यदान सदा । बहुधा युयुधानानां सुपुंसां परमोत्सवे ॥४०॥ पेक्षया एकवचनं । सिकशब्दो वस्त्रपर्यावः स्त्रीलिङ्गः । अनचार्गाधान्तः । अंशुकं वस्त्रमम्बरं सिचयो क्सनं चीराच्छादौ सिक्चेलवासी इलि कोषः । अथवा मुखमल्लादिवारिजे इति पाठान्तरं । मुखमल्ला इति लोकभाषाप्रसिद्धौ वस्त्रधिशेषः । म अगदिस्य तत् मुखमल्लादि तदेव वारिज कमलं तस्मिन् मुखमल्लादिवारिणे । अत्रापि जात्यरेक्षया एकवचनं । सुखेनं मला इव मल्ला मुखमल्लाः । अन्यशासिनः प्रतिवादिनः ते आदिल से मुखालादयः त एत्र वारिज कमलं मौक्तिकगणो वा तस्मिन् ।
३४-नेभिरीज्यन्ते प्रेयन्ते इति नेजास्तान् । नो लरे च समायेऽपीति विश्वशंभुः। ३५-स जिनदासः । दधतीः इन्द्राणीः काश्चिदङ्गताः । इत्र चतुपु द्वितीयाबहुवचनम् । ३९--पुष्यरथः मूर्धन्यांतस्थाधमध्यः । सकासाथ: पुष्यरथ इति हैमः ।
Ahol Shrutgyanam