________________
षोडशः सर्गः
अथास्ति पत्तनं नाम पत्तनं यत्र चाभवत् । विजयसिंहसूरीणामुपाध्यायपदं पुरा ॥ १ ॥ विजयदेवसूरीन्द्रमावसन्तं सुखेन तत् । श्रीमदहम्मदावादसंघ आह्वातुमागमत् ॥ २॥ आपृच्छ्य पात्तनं संघमागृह्याहूय चादरात् । श्रीमदहम्मदावादसंघः सूरियुतोऽचलत् ||३|| संघः सूरिं विधायातिमहाद्भुतमहोत्सवम् । श्रीमदहम्मदावादसदुपाश्रयमानयत् ॥४॥ श्रीमदहम्मदाबादद्रङ्गं मूरिरुपावसत् । साधूचितहितातिथ्यैवेरीयान् वर इवोत्सवैः ॥५॥ स्तम्भतीर्थादथागच्छदतुच्छश्रीसमुच्छ्रितः । संभूय संघ आह्वातुं प्रणन्तुं च गणेश्वरम् ||६|| मौक्तिकैः स्वर्णपुष्पैश्च संवर्ध्याअलिभिः शुभैः । श्रीस्थंभतीर्थसङ्घस्तमभ्यवन्दत भक्तितः ॥|७|| श्रीमदहम्मदावादद्रङ्गश्रीस्थंभतीर्थयोः । सङ्घौ व्रत इति स्पष्टं मिथो न वितथं वचः ॥८॥ तद्यथा - आयः सङ्घ इति ब्रूते द्वितीयं समागतम् । भट्टारको नवीनोऽयं चतुर्मासं निवत्स्यति ॥ अवश्यं स्थापयिष्यामि न च स्थास्यति चेत्स्वयम् । चतुर्मासमसौ सूरिः पत्तनाद्यत्पुराह्वयं नयम् ॥ द्वितीयः स्तंभतीर्थस्य संघो वक्तीति तं प्रति । भवान्मोक्ष्यति सन्तुष्य समेष्यति तदा गुरुः ॥ अत्र त्वमानयः सूरिं श्रीसंघ किल पत्तनात् । गृह्णाति मार्थ्यसद्वस्तु सङ्घः प्राचूर्णको हि ते ॥ १२ श्रुत्वेति प्रथमः सङ्घः कृत्वा तूष्णीं स्थितस्तदा । मोक्तं द्वितीयसंधेन विनयेनोचितं वचः ॥१३॥ Fit संघ समागत्य प्रणत्य च तदेति तम् । अब्रतां स्वस्वविज्ञप्तिं स्वस्वचेतोहितावहाम् ॥ आधुनिकं चतुर्मासमिव स्ववशा वस । विजयदेवसूरीन्द्र विजयदेवसौख्यभाक् ||१५|| इति साक्षीव सूरीन्द्रः संघ प्रति तदावदत् । आसीनौ पुरतो भक्त्या सुवादिप्रतिवादिवत् ॥ इतीति किं तदाह - विजयसेनसूरीन्द्रपादुकावन्दनां विना ।
विकृती हरामीति पुरा गृह्णामभिग्रहम् ||१७||
इत्युक्ते सूरिराजेन पुरस्तात्संघयोर्द्वयोः । पूर्वपक्षनिषेधोऽभूत् द्वितीयाङ्गीकृतिः स्वतः ||१८| श्रीसंघोऽहम्मदावादङ्गवासी महाशयः । प्रसद्य स्तम्भतीर्थस्य संघ मत्यब्रवीदिति ॥ १९ ॥ अभिग्रहमिमं सूरिन करिष्यद्यदा पुरा । नामोक्ष्यं च तदा सूरिं श्री संघस्थंभतीर्थके ||२०|| स्वत एव हि सूरीन्द्रो विना विज्ञप्तिभावयोः । स्थंभतीर्थे चतुर्मासं पुण्यान्निरणयत्तराम् ॥२१॥ अचलचलनौ मुञ्चन् कौसेयादिसिगम्बुजे । सुदिने जिनवत्सूरिः संघयुक् स्थंभतीर्थकम् ||२२||
२ - उपान्वध्याङ्ग्वस इति आङ्पूर्वस्य वसतेराधारस्य । तत्रेत्यस्य स्थाने तदिति कर्म । १८- पूर्वपक्षनिषेधः श्रीमदहमदाबाद नगर चतुर्मासावस्थानलक्षणपक्षनिषेधः । द्वितीयाङ्गीकृतिरिति श्रीस्तम्भतीर्थचतुर्मासावस्थान लक्षणपक्षाङ्गीकारः । स्वतः आत्मतः ।
२२- कौसेयादिसिगम्बुजे कौसेयादिवस्त्र कमलेषु । कौसेयादिसिगम्बुज इत्यत्र जात्या
Aho! Shrutgyanam