________________
૨૦૨ श्रीवल्लभोपाध्यायविरचितं
[ पञ्चदशः तपांस्येतादृशान्येवमनेकान्यकरोद्गुरुः । तद्विधौ पुनरद्यापि तस्याद्यो दिवसोऽसति ॥२४॥ अद्य यावद्गणाधीशोऽभ्यतपद्दस्तपं तपः । एतादृशोऽस्त्यभिप्रायश्चिरायास्य च तत्कृतौ ॥२५॥ जीर्णोद्धाराजरत्तीर्थाऽजरच्चैत्यादिकं भवेत् । तपो लाभोपमं तर्हि तद्वर्षेऽल्पं तपोऽस्तु चेत् ॥२६ कस्यचिन्महतो मन्त्रिजयमल्लादिकस्य हि । विज्ञप्तिकरणादेव नान्यथा तत्तपोऽल्पता॥ युग्मम् । क्रियात्युग्रतया साक्षादवती! धनो मुनिः। सन्दिहन्तीति यं वीक्ष्य कवयो यं कलौ किल॥ आनन्दविमलमूरिद्वितीयोऽयमभूद्गणे । नैवमेषोऽधिकस्तस्मादित्यन्ये ब्रुवते बुधाः ।।२९।। तदाह-क्रियोद्धारः कृतस्तेन नैतादृशं कृतं तपः । महातपा इति ख्यातं नाप्तं च बिरुदं भुवि । इति हेतुत्रयाधिक्यं शोभतेऽस्मिन्नहर्निशम् । यदत्रान्यगुणाधिक्यमस्ति वक्तुं न तत्क्षमः ॥३१॥
-त्रिभिविशेषकम् । क्रियायास्तपसश्चास्य पारं वक्तुं कदापि हि । शक्नुवन्ति कवीन्द्रा नो बृहस्पतिसमा अपि ॥३२॥
इत्युत्तमं श्रीविजयादिदेवमूरिस्तपो दुस्तपमातनोत्तत् ।
श्रीवल्लभः पाठक एवमाख्यत् कर्तुं न शक्तोऽन्यजनो यदीक् ॥३३॥ इतिश्री श्रीबहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीयपाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराज पातशाह श्रीअकव्वरप्रदत्तजगद्गुरुबिरुदधारक श्रीहीरविजयसूरीश्वरपट्टालंकार पातिशाहि श्रीअकबरसभासंलब्धदुर्वादिजयवाद भट्टारक श्रीविजयसेन सूरीश्वरपट्टपूर्वाचलसहस्रकरांनुकारि पातिशाहि श्रीजिहांगीरप्रदत्तमहातपाविरुदधारि श्रीविजयदेवसूरीश्वर गुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजयदेवसूरिकृततपोवर्णनो नाम पञ्चदशः सर्गः ॥१५॥
२४-असगतिदीप्त्यादानेषु भ्वादिरुभयपदी । २५-अस्य श्रीविजयदेवसूरेः । तत्कृतौ तपोविधाने । एतादृशोऽभिप्रायोऽस्ति ।
२७-चेत्तपोलाभापमं जीर्णोद्धाराऽजरत्तीर्थाऽजरचैत्यादिकं भवत्तेहि तद्वर्षे कस्यचिन्म. इतो मन्त्रिजयमल्लादिकस्य विज्ञप्तिकरणादेव अल्पं तपोस्तु । अन्यथा तत्तपोऽल्पता तस्य श्री. विजयदेवसूरेस्तपोऽस्पता तपसोऽल्पत्वं नान्यथा नान्येन प्रकारेणेत्यर्थः।
Aho I Shrutgyanam