________________
सर्गः] विजयदेवसरि-माहात्म्यम्
१०५ विचित्रश्चित्रिताश्चित्रैजननेत्रकृतोत्सवाः । आनाययत्स संघेशः शिबिकाः शिवकारिकाः॥४१॥
__ -त्रिभिर्विशेषकम् । एवं विधाय सामग्री पूनवेशोत्सवोचिताम् । जिनदासो धृतोल्लासो महाजनान् समाह्वयत् ।। वाजिनो हस्तिनोऽनेकान् अलङ्कारैरलतान् । समास्तीर्णपरिस्तोमान् श्रीमानानाययत्ततः॥४३ वाद्यान्यनेकजातीनि समानाय्य विशेषतः। छटाः सत्केसराम्बूनामकरोत्स महाजने ॥४४॥ प्रक्षेपं पटवासानां महाजनपटेष्वपि । अतिभक्तिमनाः स्वीयहस्ताभ्यां स व्यधात्तदा ॥४५॥ पू:प्रवेशोत्सवस्यैवं सामग्रीमग्रतोऽग्रिमाम् । कृत्वाभिमुखमानन्दादानेतुं सोऽवजद् गुरुम् ॥ गत्वा महाजनोपेतो जिनदासो हरिर्गुरुम् । अभिवन्ध हृदानन्द्य स्वर्णपुष्पैरवर्धयत् ॥४७॥ इन्द्राण्योऽपि हृदा पीताः पूर्णकुम्भान्विताः स्त्रियः। अभ्यवन्दलॅसन्मुक्ता पङ्क्त्या तं चाभ्यवर्धयन्।। सह लात्वाग्रतः कृत्वा स मूर्ति परमन्तरा । प्रावेशयच्च धर्मीको यशो देशान्तरं स्वकम् ॥४९॥
(-'कीर्ति देशान्तरं स्वकाम्'-इति वा पाठः) साध्वाचारात् प्रतिक्रम्य स ईर्यापथिकी तदा । जिनेन्द्र इव सद्भद्रासनमध्यास तत्क्षणात् ॥५० जिनदासः सुराधीश इवासत च तत्पुरः। श्रीसङ्घसहितो भत्त्या सुरमकरराजितः ॥५१॥ आसन्ताग्रत इन्द्राण्य इव देवीसमन्विताः। योषितो योषितां तत्या श्रियां तत्या च चञ्चुराः।। धर्मोपदेशं श्रीसूरिः शुभाशिषमिवेशम् । उपादिशत्प्रसन्नात्मा ततः संघसमक्षकम् ॥५॥ ईदृशं इति कीदृशं तदाह-जिनाः सिद्धास्तथाचार्या उपाध्यायाश्च साधवः ।
श्रियं च मङ्गल कुर्युः पञ्चैते परमेष्ठिनः ॥५४॥ श्रुत्वेति जिनदासोऽथ समुत्थाय स्वपाणिना श्रीमहाजनहस्तेषु न्यस्तवान् रूपकोत्करम् ॥५५॥ पू:मवेशोत्सवे सरेरेवं श्रीजिनदासकः । त्रयोदशशतान्यत्र रूपयाण्यव्यययत्तराम् ॥५६॥ ततः संघेन संयुक्तः समहोत्सवपूर्वकम् । विजयसेनसूरीन्द्रपादकाजमवन्दत ॥१७॥ उपाध्यायपदं श्रीमद्रत्नचन्द्राय सोऽददात् । पण्डितपदमन्येभ्यः साधुभ्यश्च तदोत्सवात् ॥५८॥ विकृत्यभिग्रहं पूर्णमपूर्णमिव सोऽकरोत् । विकृतीनां समस्तानां न सदा भोजनाद् भृशम् ॥१९॥ जिनदासादिक-स्थम्भतीर्थसंघाग्रहाद्गुरुः । अध्यवसच्चतुर्मासं स्तम्भतीर्थपुरं सुखात् ॥६॥ भव्यान पावर्तयद् धर्मे सिद्धान्तोक्तचतुर्विधे । चतुर्दशानवद्याश्च विद्या अध्यापयन् मुनीन् ॥६॥
४३-श्रीमान जिनदासः ।
५६-व्यय वित्तसमुत्सर्गे चुरादिः परस्मैपदी । यद्यपि अव्ययत्तररामित्यनेन वित्तसमुत्सर्ग इत्यर्थो लब्धस्तत् कथं पुनरूप्याणीति ? सत्यं, करिकलभवदुक्तिपोषानदोषः । अथवा वित्त इत्यस्य सामान्यधनपर्यायत्वात् रूपयाणीति रूप्यशब्दस्सामान्येन सर्वनाणकपर्यायं ब्रुवन्नपि अत्र रूपइया इति भाषापर्यायं ब्रवीति, इत्यतो न पुनरुक्तिदोषः ।
१४
Ahol Shrutgyanam