________________
चतुर्दशः सर्गः
अथ नागपुरात्सङ्घः समाह्वातुं समागमत् । संरक्षितुं चतुर्मासं सूरीन्द्रं मेडतापुरे ॥१॥ प्रणम्य बहुशः प्रोक्तस्तेन मूरिः स्वभक्तितः । अपृच्छन्मेडतासङ्घ संघो मामाह्वयत्ययम् ॥२॥ मेदिनीतटसंघोऽत्र संघ नागपुरीयकम् । प्राहेति साम्प्रतीनेऽब्दे चतुर्मासं वसिष्यति ॥३॥ महत्त्वमिदमानन्ध प्रसह्य च प्रदेहि मे । संवो नागपुरस्येति श्रुत्वा तूष्णीं व्यधात्तदा ॥४॥ मेदिनीतटसॉ चतुर्मासमुपावसत् । मूरि गपुरीयोऽपि सः प्रास्थात् तदाज्ञया ॥५॥ अथार्जुनपुरीनाम पुरासीच्छ्रेयसी पुरी। घंवाणीत्यधुना नाम्ना प्रसिद्धास्ति पुरी वरा ।।६।। तत्र सम्पतिराजा प्राक् जिनागारमकारयत् । पद्मप्रभजिनं तत्र स्वामित्वेन न्यवेशयत् ॥७॥ अनेकाः प्रतिमा रीरीमय्यः सर्वा मनोरमाः । श्वेतस्वर्णमयी पार्श्वप्रतिमैका प्रभावभाः ॥८॥ पद्मप्रभजिनाधीशपार्थासीना इमा व्यभुः । प्रभावोऽपि महानासीत्तस्य तासां च सर्वदा ॥९॥ कुतोऽपि कारणाद् द्रङ्गभङ्गात्तदासिनो जनाः। ताः सर्वाः प्रतिमा भूमौ न्यस्यन्नुपसरः पुराः॥ अगच्छत्प्रचुरोऽनेहा अम्रियन्त जना अपि । तासां निक्षेपकाः सर्वे द्रङ्गं ग्रामोऽपि चाभवत् ॥ अखनन्नान्यदा लोकाः समीपे सरसो भुवम् । प्रतिमैका तदा खण्डा प्रादुरासीत्स्वभावतः ॥ अन्या अपि ततः सर्वाः प्रादुरासन् यथाधृतम् । अभवच्च तदा तासां सत्पूजा महिमापि च ।। अहो अजीववस्तूनां रागद्वेषाद्यभावतः । कदा नार्चा कदाप्यर्चा पुनरर्चा कदापि यत् ॥१४॥ विद्मस्तत्कर्म नो किंचिद्वक्तुं नो शक्नुमोऽपि च । संभावयामः कर्मैव किंचित्तत्रापि निश्चितम् ।। अथासीलवणो धर्मे निहुणः साहुलाकुले । तस्य पुत्रा अमी पश्च जनीनाः पञ्च सज्जनाः ॥१६॥ तद्यथा-हंसस्तेजस्तथा राजा मद्दः श्रीमहिराजकः । तेषु भ्रातृद्वयं स्वर्गमायुषः क्षयतोऽत्रजत् ॥
१-मेडतापुरे इति-मेदिनीतटे पाठान्तरम् । २-तेनेति नागपुर सङ्घन ! अयमिति नागपुरसक्छ । ३-वसिष्यतीति-विधास्यति पाठान्तरम् ।
५-मेदिनीतटसङ्गमित्यत्र उपाऽन्वध्याऽङ्वसः इति उपपूर्वस्य वसतेराधारत्वात् द्वितीयैकवचनं । चतुर्मासमित्यत्र कालाध्वनोरत्यन्तसंयोगे इति द्वितीया । तदाज्ञयेति श्रीविजयदेवसूरेराज्ञया ।
६-वरेति जने पाठान्तरम् । ८-प्रभावेण भासते दीप्यते इति क्विपि प्रभावभाः । १०-न्यस्यन् निचिक्षिपुः । उपसरः तटाकसमीपे । १७-हंसमहिराजभ्रातृद्वयम् ।
Ahol Shrutgyanam