________________
श्रीवल्लभोपाध्यायविरचित
[त्रयोदशः श्रीसूरीन्द्रस्तदा प्राह सोनाख्ये श्राविकेऽस्ति हि । प्रतिष्ठाई दिन ज्येष्ठशुक्लपक्षत्रयोदशम् ॥६९॥ सुसामग्री प्रतिष्ठाया विधाय विधिवत्तदा । प्रतिमाः मूरिहस्तेन प्रतिष्ठापयति स्म सा 11७०॥ पतिमाः प्रत्यतिष्ठत्ताः सरिर्जातमहोत्सवम् । रूपकाण्यददाद्धर्षाद्भक्त्या संघान् प्रभोज्य सा ॥ षोडशस्य शतस्यास्मिन् सप्ताशीतितमेऽन्दके । प्रतिमानां प्रतिष्ठाऽभूदेवं श्रीमेदिनीतटे ॥७२॥
एवं श्रीविजयादिदेवसुगुरुः स्वर्णाचलाख्ये पुरे, श्रीमन्मेदतटे पुरे च स लसद्विम्बप्रतिष्ठे व्यधात् । श्रीश्रीवल्लभपाठकः समपठत् यस्य प्रशस्यानिमान् ,
सत्कर्तव्यचयान् विचक्षणगणैः संवर्णनीयान् सदा ७३||
इतिश्री श्रीबहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीय पाठकश्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराज पातशाह श्रीअकबरप्रदत्तजगद्गविरुदधारक श्रीहीरविजयसूरीश्वरपट्टालङ्कार पातिशाहिश्रीअकव्यरसभासंलब्धदुर्वादिजयवाद भट्टारक श्रीविजसेनसूरीश्वरपट्टपूर्वाचल सहस्रकरानुकारि पातिशाहि श्रीजिहांगीरप्रदत्त महातपाविरुदधारि श्रीविजयदेवसूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजयदेवसूरिनिर्मितश्रीजाबालपुर-श्रीमेदिनीतटपुरप्रतिमाप्रतिष्ठाप्रतिपादको नाम त्रयोदशमः सर्गः ॥१३॥
Ahol Shrutgyanam