________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् आवसन्त चतुर्मासी श्रीसुवर्णगिरि पुरम् । आकारयितुमानन्दकारकं सूरिपुङ्गवम् ॥५४॥ सोऽपि गत्वा ततो नत्वा श्रीमरिचरणाम्बुजे । प्रादात्पत्रं पवित्रश्रि श्रीसूरीन्द्रकराम्बुजे ॥५५॥ सूरिः प्रवाच्य तत्पत्रं ज्ञातोदन्तोऽतिमोदतः । अबदद्वदनादित्थं सुवर्णगिरिसंघकम् ॥५६॥ श्रीमत्सह-समस्ताघप्रतापसवितः सदा । सोनानाम्न्या इदं पत्रं श्राविकायाः प्रवाचय ||५७॥ वाचयित्वाथ ससस्स तत्पत्रं प्रीतिकर्तृकम् । प्रतिमानां प्रतिष्ठाया विज्ञप्तिप्रतिपादकम् ॥५॥ समनुष्यत्तरां चित्ते तच्चित्वेनातिरञ्जितः । चातुर्येण च केनापि लिखनाज्जातकौतुकः ।। युग्मम् । प्रतिष्ठाज्ञापकोदन्तं सो विज्ञाय चेतसि । श्रीसूरीन्द्रमिति प्राह पालिनतमस्तकः ॥६०॥ इतीति किं तदाह-यद्येतस्याः प्रतिष्ठाथै नायास्यत् किल पत्रिका ।
नाचालयिष्यमेवातो यद्वियोग सहे न ते ॥६॥ तपःशमवरिष्ठस्व प्रतिष्ठस्व गरिष्ठधीः । न निषेधाम्यथो धर्मकार्यविघ्नं करोमि न ॥२॥ अथ प्रातिष्ठत श्रेष्ठ मुहूर्ते मूर्तिमान् महान् । सद्धर्म इव सूरीन्द्रः श्रीजाबालपुरात्ततः ॥६३॥ पतिग्राम प्रतिद्रङ्गं विचरन्नाचरन् वरम् । साध्वाचारं व्रतोच्चारं कारयन् श्रावकादिकान् ॥६४|| मेदिनीतटसद्दङ्गं समवाप गणाधिपः । श्रुत्वा तमागतं सगे नन्तुमभ्यागमत्तथा ॥६५॥ अभिवन्ध पदाम्भोजे सह लात्वा च तं गुरुम् । नयति स्म मुदा सङ्घः स्वकीयं सदुपाश्रयम् ॥ तदा सट्टोऽकरोद्दिव्यधनव्ययमहोत्सवम् । गुरोरागमने किं किं न कुर्युविका जनाः ॥६॥ अथ सोनाभिधा श्राद्धी प्रतिष्ठाई शुभं दिनम् । अपृच्छच्छ्रीगुरुं भक्त्या सर्वसङ्घ-समक्षकम् ॥६८॥
___ ५४--एवं विचार्येति युग्मव्याख्या लिख्यते-शौण्डीरः सत्त्ववान् तस्य भावः शौण्डीर्य, सत्त्ववत्वमित्यर्थः । निरनुस्वारतालव्यचर्तुदशस्वरादिरयं । तया सोनां नाम्न्या अर्याण्या वैश्यजातिस्त्रिया वणिगजातिस्त्रिया वणिजः पुत्रयेत्यर्थः । कथंभूतया तया ? अर्याणां अर्यया अर्याणां वणिगजातिस्त्रीणां अर्थ या स्वामिन्या | अर्याणी अर्या अत्र उभयत्र जातियाचित्वात् 'अर्य-क्षत्रियाभ्यां वा स्वार्थे' इति वैकल्पिके डीषि आनुकागमे च अर्याणी डोषो अभावे आनुकश्च अभावे अजाद्यतष्टाविति टापि अर्या अर्यः स्वामि वैश्ययोरिति निपातितः । स्यादयः स्वामिवैश्ययोरिति हैमानेकार्थः । एवं अर्याण्या अर्या अर्याणामिति । त्रिषु हस्व एव अकारो ज्ञेयः । आवसन्तमितिश्रीसुवर्णगिरि पुरमावसन्तमित्यत्र उपाऽन्वऽध्या स इति आङ्पूर्वस्य वसतेराधारस्य श्रीसुवर्णगिरि पुरमित्यस्य कर्म । चतुर्मासीमियत्र कालाध्वनोरत्यन्तसंयोगे इति कर्म ।
५९-समनुष्यदिति-तस्याः सोनां नाम्न्याः श्राविकायाः चित्त्वं ज्ञानत्वं मतित्व वा तञ्चितत्त्वं तेन ।
६२-तपःशम इति-तपःशमौ एव वरिष्ठं स्वं धनं यस्य तत्सम्बोधन हे तपःशमवरिष्ठस्व हे श्रीविजयदेवसूरे प्रतिष्ठस्व प्रचल । ष्ठा गतिनिवृत्तौ समवप्रविभ्यः स्थ इत्यात्मनेपदी ।
Ahol Shrutgyanam