________________
श्रीवल्लभोपाध्यायविरचितं
[ त्रयोदशः
उज्ज्वलं च कुलं १२ श्रेयः श्रेयोन्यायैरुपार्जिताः । सम्पदो १३ विपदाहीनाः परोपकृतिसत्कृताः ॥ ३९॥ त्रयोदश समाख्याता हेतवोऽमी मनीषिभिः । पुण्यानामर्जने नृणां मर्त्यलोके सुखप्रदाः ||४०|| चतुर्भिः कलापकम् । श्रुत्वा सोहागदेवीति श्रीगुरोर्वदनाम्बुजात् । सप्तक्षेत्रेषु सद्द्रव्यं वपति स्म त्रपावती ॥४२॥ सदादाने सदा दाने धनधान्याम्बरादिकम् । अर्थिभ्यः सा ददातीष्टं श्रेयसे श्रेयसेभृशम् ||४२ ॥ ददाना सर्वाभीष्टं धनधान्याम्बरादिकम् । अदृश्याप्याभवद्दृश्या कामधेनुरियं किमु ||४३|| अभ्यस्तां बुधा एवं तदा प्रमुदिता हृदि । यथावद् दृष्टवक्तारो यल्लोकाः कवयोऽपि च ॥४४॥ सम्यक्तवपीवरी श्रीमद्दर्हत्सद्गुरुदृश्वरी । श्रीधीवरी व्यराजत्सा पातकावावरी तदा ॥ ४५ ॥ एवं प्रवर्तमाना सा चेतसीति व्यचिन्तयत् । प्रतिमा अर्हतां कान्ताः कारयाणि सुशिल्पिभिः।। प्रतिमाकारणे पुण्यं निश्चित्येति विचिन्त्य च । आह्य शिल्पिनो दक्षान् प्रतिमाः सा व्यधापयत् ॥ सुधर्मस्वामिसयमभृतीनां महाद्भुताम् । श्रीमद्विहरमाणानां विंशतेश्वैत्यविंशतिम् ||४८॥ चतुर्विंशतिविम्बानि वर्तमानाईतां पुनः । दृषत्स्फटिकसद्रीरीमयानि विविधानि हि ॥४९॥ - त्रिभिर्विशेषकम् ।
विधाय प्रतिमा: माहुः शिल्पिनस्तामिति स्फुटम् । निष्पन्नाः प्रतिमाः सन्ति यथेप्सितमथो कुरु ॥ समाभाकर्णि सा तदा शिल्पिजल्पितम् । सद्यः मसद्य तद्योग्यं तेभ्योऽदात् पारितोषिकम् ॥ ' आह्वयान्यथ सूरीन्द्रं ताः प्रतिष्ठापयानि च । विना प्रतिष्ठां पूजा नो स्याद्दोषः पूजया विना ॥ ५२ ॥ एवं विचार्य चातुर्यशो०डीयैौदार्यवर्यया । तयार्याव्यार्ययार्याणां मैषि त्रैष्यो विचक्षणः ॥ ५३ ॥
४२ - सदादाने सकारेति भाषाप्रसिद्धे । सदा सर्वस्मिन् काले दाने त्याने श्रेयसे कल्याणाय पुनः श्रेयसे धर्माय |
४५-सम्यक्त्वपीवरी सम्यक् पीतवती । पा पाने । श्रीमदर्हत्सद्गुरुदृश्वरी श्रीमद्हेत्सद्गुरून् दृष्टवती, श्रीधीवरी श्रियं धृतवती । डुधाञ् धारणपोषणयोः । अत्र त्रिषु अन्येभ्योऽपि दृश्यन्ते इति कनिपू, वनोति ङीप् प्रत्ययो रेफादेशश्च । पीवरी धीवरी इत्युभयत्र घुमा स्थागा पेति आकारस्य ईकारः। पतिकावावरी पापापनेत्री आणूऋ अपनयने अन्येभ्योऽपि दृश्यन्ते इति वनिप प्रत्यये विड्वनोरनुनासिकस्यादिति णत्वस्य आत्रे वनोर्चेति ङीप्रत्ययो रेफश्चान्तादेशः ।
४६ - सा सोनां नाम्नी । सुशिल्पिभिः शिलाकुट्टादिभिः । अत्र हक्रोरन्यतरस्यामिति वैकल्पिककर्माभावे तृतीया । अथवा सुशिल्पिन इति पाठे कर्मापि वैकल्पिकं न दोषायेति ।
Aho ! Shrutgyanam