________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् अकारयन्मुनीन् कांश्चित् तपः षष्टाष्टमादिकम् । अवाहयच्च सद्योगं सिद्धान्तानां यथाविधि ॥ दिव्येन विधिना श्राद्धीरुपधानादिकं च सः। श्रद्धया वाहयद्धर्म श्रद्दधानाः शिवप्रदम् ॥२२॥ व्रतं हरितकायादिप्रत्याख्यानमकारयत् । श्रावकानन्यलोकांश्च वन्दितुं स समागतान् ॥२३॥ श्रावयन् शुद्धसिद्धान्तमाचाराङ्गादिकं प्रगे। श्रावकान् मुनिनश्चासौ चतुर्मासं समाप्तवान् । अबोचन्मन्त्रिणं मूरिरथातः प्रचलान्यहम् । चतुर्मास्यभवत्पूर्णा नाथास्वस्थितिर्मम ॥२५॥ माह मन्त्री तदा मूरिमा चैत्रीं तिष्ठ निश्चलः । चतुर्मास्यभवत्पूर्णा न पूर्णा मे मनोरथाः॥२६॥ सूरिः स्वस्थमना अस्थात् साधुसाधुव्यवस्थया। कथनाकरणं दुःखं माभूदस्येति सद्धिया ॥२७|| मेदिनीतटसद्रङ्गे हर्षोऽभवदथास्तिमान् । अस्तिमन्नायकः सङ्घनायकः सुखदायकः ॥२८॥ अजयजयवन्ताख्यः सुतस्तस्य सुताग्रणीः। अजयच्च जयं देवराजांगजमजोत्तमः ॥२९॥ साहलागोत्रविख्यातो वाघो नामास्ति अस्तिमान् ।
सोनानाम्नी सुता तस्य तस्य जायास्ति आस्तिकी ॥३०॥ आयुषः क्षयतः स्वर्ग जयवन्तोऽवजद् द्रुतम् । पत्नीसोहागदेव्यस्याशोचचित्ते चिराय च ॥३१॥ यौवने वयसि श्रेयान् विपद्येत पतियदि । महदुःख वरस्त्रीणां हा यास्यति कथं वयः ॥३२॥
(-धिक् संसारं शरीरिणः-इति वा पाठः) कियत्यपि गते काले पत्युः शोके गतेऽपि च । विज्ञाय साथ संसारमसारं परमार्थतः ॥३३॥ दानं शीलं तपो मुख्यं धर्मकर्मपरायणा । कुर्वाणा वर्ततेकाग्रचित्ता सा पापभीरुका ॥३४॥ भव्या वषन्ति ये द्रव्यं क्षेत्रेष्वेतेषु सप्तम् । ते फलं किं लभन्ते हीत्यपृच्छद्गुरुमन्यदा ॥३५॥ तत्त्व प्राच्छातया प्रश्ने कृत इत्याह तत्वभुत् । जनैनांसि ध्रुवं धुन्वन् वितन्वन् प्रेममानसे ॥३६॥ तथाहि-तीर्थे १ तीर्थकरे २ साधौ ३ भक्ति निर्मलचेतसा ।
धर्मशास्त्रे रुचिः २ सत्या दया ३ दानं ४ सुपात्रके ॥३७॥ सत्यं वाक्यं ५ विवेकश्च ६ प्रशस्तास्तिकतामतिः ७ ।
आर्यदेशो ८ मनुष्यत्वं ९ दो यू १० रोगहीनता ११ ॥३८॥
२१-उभयत्र श्लोके अवाह यदिति क्रियापदस्य ण्यन्तत्वात् नियन्तृकर्तृकस्य बहेरनिषेध इति निषेधात् । मुनीन् इत्यन्न द्वितीयश्लोफे श्राद्वीरित्यत्र च कर्म । धम्मसारहीणमिति वचनात् गुरोधर्मकर्मणि प्रेरकत्वेन नियन्तृकर्तृकत्वसद्भावात् ।
२९-अज इव कृष्ण इव उत्तमः सर्वोत्तमत्वात् यः स अजोत्तमः । अछागे हरे विष्णौ रघुजे वेधलि मरे।' इति हैमानेकार्थे ।
३०-सस्य वाघानाम्नः सुना। तस्य जयवन्तस्य जाया परिणीता स्त्री अस्ति । अस्ति अस्तिमान , अस्ति आस्तिकी इत्युभयन इकोऽसवणे शाकल्यस्य इस्वश्चेति प्रकृतिभावः ।
Ahol Shrutgyanam