________________
त्रयोदशः सर्गः
अथातः प्राचलमूरिालसावान् निरालसः । ब्रह्मचर्यप्रतिष्ठादिधर्मकार्ये हि सत्कलः ॥१॥ नालीलालीकजल्पाकसाधुशाली मुशीलवान् । शीलवतादिधर्मेषु साधुलोकान् प्रवर्तयन् ॥२॥ श्रीजाबालपुरं प्राप्नोत् सूरीन्द्रश्चन्द्रशीतलः । अभ्यायाज्जयमल्लोऽपि वन्दितुं तं च संघयुक् ॥३॥ विधायोत्सवमुत्साहाद् गीतातोद्यस्वनाद्भुतम् । नगरस्यान्तरे सूरि जयमल्लः समानयत् ॥४॥ स आनयत् परां प्रीति स्वस्यान्येषां च मानसम् । एकस्य हर्षसम्प्राप्तावन्येषां किं न मुन्नणाम् ।। धन्योऽहमद्य संजातो निरवद्यमनोरथः । अहंतां भविता चाथ प्रतिष्ठेष्टेत्यचिन्तयत् ॥६॥ पश्य प्रशस्यसूरीश प्रतिष्ठाश्रेष्ठवासरम् । सोऽप्यपश्यन् मुहूर्त च युक्तो मौहर्तिकस्तदा ॥७॥ प्रथमाषाढपक्षस्य कृष्णपञ्चमवासरम् । भासुरं तीर्थकृद्विम्वप्रतिष्ठाप्रवर्तते ॥८॥ इति प्राह धतोत्साहः मूरिमौहूर्तिकान्वितः । मन्त्रिणं जयमल्लाख्यं श्रीसुवर्णगिरीश्वरम् ॥९॥ संजातरोमहर्षश्रीसंश्लेषविदुषो रुषा। देशेभ्यः समस्तेभ्य इभ्यः संघान् समाह्वयत् ॥१०॥ आयानुपरि तस्याह्नस्ते सङ्कन अन्यदेशतः । ग्रामीणाश्च स्वदेशस्य सर्वलाभाभिलाषिणः ॥११॥ सोऽथ श्रीजिनचैत्यानां प्रतिष्ठाया मुहूर्तकम् । असानोद् गीतगानोद्यद्वायध्वानं यथाविधि ॥ कृतप्रतिष्ठः सूरीन्द्रः समदीपिष्ठ शिष्टरुक् । निर्मापितप्रतिष्ठश्च मन्त्रीति जयमल्लकः ॥१३॥ तद्यथा-सद्वाससं शुभावासं वासं पादाद्गणेश्वरः। साधुभ्यः श्रावकेभ्यश्च पदव्रतविधायकम् ॥१४॥ मन्त्रीशः साधुलोकेभ्यः सदासांसि व्यहारयत् । आहारयद्वराहारं संघांस्तेभ्यो धनं त्वदात् ।। षोडशस्य शतस्यास्मिन् षडशीतितमेऽब्दके । प्रथमाषाढपक्षस्य कृष्णे पञ्चमवासरे ॥१६!! प्रत्यतिष्ठजिनेन्द्राणां प्रतिमाः प्रतिमाग्रिमाः। विजयदेवसूरीन्द्रः श्रीजाबालपुरे वरे ॥१७॥ निवृत्ते च तदा तत्र प्रतिष्ठाया महोत्सवे । मन्त्रिण पाह सूरीन्द्रः प्रचलानि त्वदाज्ञया ॥१८॥ मन्त्री प्राहाथ सूरीन्द्रं चतुर्मासं कुरु प्रभो।चालयानि नचाहं त्वां चतुर्मासीविधि विना ॥१९॥ अङ्गीकृत्य तदा तस्य रुचिरं वचनाग्रहम् । संग्रहमिव वस्तूनां शस्तानामवसद्गुरुः ॥२०॥
१०-अत्र विदुषशब्दो विद्वत्पर्यायोऽकारान्त औणादिको ज्ञेयः। न रुट् अरुट क्रोधाभावः सन्तोष इत्यर्थः । अत्र न-अभावे तया अरुषा सन्तोषेण इत्यर्थः । ननु रुड् विरुद्धा अरुट् इत्यपि समासः स्यात् । सत्यं नात्रायं नञ्समासः । कथं अस्मिन् समासे अरुट शब्दः क्षमापर्यायः स्यात् । न च तदानीं तस्य कस्यचिदुपरि कोपः, विना कोपं कथं क्षमेति अभावे एवायं नयु-समासः।
Ahol Shrutgyanam