________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् ततस्तत्सर्वसंभूतश्रीसंघनिचयाय तौ । रूप्याम्बराणि चारूणि प्रादातां प्रीतचेतसौ ॥५३॥ आहूतान् श्रावकान् सर्वान् तौ व्यसर्जयतां ततः । इति विज्ञपयन्तौ च समायायुश्चिरायुषः ॥ आयाताः परदेशेभ्यः श्राद्धाः सच्छ्रद्धयान्विताः। आह्वयन्ति चतुर्मासं कर्तुं सूरीश्वरं तदा ॥५५॥ •मन्त्रि श्रीजयमल्लोऽपि वाग्मी वाग्ग्मीनमित्यवक । एहि कर्तुं चतुर्मासं सूरे स्वर्णगिरौ ध्रुवम् ॥ सूरिः प्राह महामन्त्रि श्चतुर्मासी व्यथां पुरा। अभवद्वर्षयोयुग्मं महालाभश्च ते च मे ॥५७॥ प्रतिष्ठाजिनविम्बानां कर्तव्यास्तीति सोऽवदत् । तीर्थे शत्रुञ्जये चैत्ये चैत्यस्थापन हेतवे ॥५॥ अत आव महाभाव समभावमहात्मसु । प्रतितिष्ठ यतिश्रेष्ठ जिनानां प्रतिमाततिम् ॥१९॥ भवितायं महान् लाभः पुनरन्योऽपि कश्चन । इत्यागृहामि गृह्णीयाः प्रतिष्ठापुण्यमग्रणि ॥६०॥ इत्यवादीत्ततः मूरिः श्रीजयमल्लमन्त्रिणम् । प्रतिष्ठास्यामि बिम्बानि चतुर्विंशतिमहताम् ॥६॥
इत्थं श्रीविजयादिदेवसुगुरुः श्रेष्ठप्रतिष्ठां व्यधात् , श्रीमड्डङ्गरभाखरप्रविहिताऽर्हचैत्यसञ्चैत्ययोः। सिद्धान्तप्रतिपादितेन विधिना पुष्पावतीपत्तने, (श्रीपल्लिकायां पुरि)
श्रीश्रीवल्लभपाठकपठितप्रेष्ठप्रतिष्ठोत्सवाम् ॥१२॥
इति श्रीबहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीय पाठकश्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराज पातशाह श्रीअकबरप्रदत्तजगद्गुरुविरुधारक श्रीहीरविजयसूरीश्वरपट्टालङ्कार पातिशाहिश्रीअकबरसभासंलब्धदुर्वादिजयवाद भट्टारक श्रीविजसेनसूरीश्वरपट्टपूर्वाचल सहस्रकरानुकारि पातिशाहि श्रीजिहांगीरप्रदत्त महातपाविरुदधारि श्रीविज. यदेवसूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्य नाम्नि महाकाव्ये श्रीविजयदेवसूरिविनिर्मितश्रीपल्लिकापुरी नवलक्षप्रासाद श्रीनवपल्ला पार्श्वनाथप्रतिष्ठाप्ररूपको नाम द्वादशः सर्गः ॥१२॥
५३-तत: श्रीसमस्त श्रीसभोजनानन्तरं मन्त्रिश्रीजयमल्लसुभट भोजनानन्तरं ग्रामीणलोकभोजनानन्तरं चेत्यर्थः । तत्सर्वभूतश्रीसङ्घनिचयाय ते च निमन्त्रिताः परदेशश्रावक सङ्घाः ते च श्रीजयमल्लाद्याः श्रावकलोकास्ते च ग्रामीणाश्चेलि त्रिभिर्द्वन्द्वे सरूपाणामेकशेषे इति ते । ते च ते सर्वसंभूतश्रीसङ्घाश्च तत्सर्वसंभूतश्रीसङ्घास्तेषां निचयस्तस्मै ।
५४-समायायुः समागच्छेयुः । या प्रापणे विधौ लिङः प्रथमपुरुषबहुवचनम् ।
५५-तदा प्रतिष्ठाकरणानन्तरकाले । ५५-वाग्रमी सम्यगभाषकः । वाग्मात्ययं शब्दो द्विगकारवान् । ग्मिन् इति सूत्रेण ग्मिन् प्रत्ययान्तत्वात् । ग्मिन इत्यत्र यो गकारः स प्रत्यये चेति सूत्रेण जायमानस्य अनुनासिकस्य निवृत्त्यर्थः । यदि तु मिनिरित्येवोच्येत तदा प्रत्यये चेति नित्यमनुनासिका स्यात् ।
Ahol Shrutgyanam