________________
श्रीवल्लभोपाध्यायविरचितं
[द्वादशः अस्मिन्नवसरे लोकाः प्राक् पश्चाच्चेदृशाः किल ! प्रभावात् श्रीगुरोः श्रीमत् पार्श्वनाथस्य चाभवन।। पीवरोरव इच्छंति वामोरव उपासते । लक्ष्मणोरव एधन्ते करभोरव ईशते ॥४५॥ ययोः सेवां समीपं च सद्गुणस्तवनात् श्रिया । प्रसादाद् राज्यमद्वन्द्वं निर्लोमकरभोपमम् ॥ पीवरोर्वश्च वामोर्चः करभोर्वश्च काश्चन । लक्ष्मणोः कलादक्षाः रंजिताः प्रीतचेतसः ॥४७॥ लक्ष्मीनाम्न्यः सुनामानो रंभानामाश्च सर्वदा । आस्तिक्यमतयोऽर्हन्तमास्तिक्यः स्तुवते च तम् ॥ शफोर्वस्तानं जायन्ते संहितोर्वश्च कहिंचित् । यद् गुणान् याः प्रगायन्ति स्त्रिय इत्यब्रुवस्तदा॥ एवं सिद्धे प्रतिष्ठायाः कायें तो भ्रातरावथ । कामकुंभाविवाभीक्ष्णं समभोजयतां जनान् ॥५०॥ उचितानि प्रभूतानि भोज्यानि नवनवानि हि । कुण्डलीप्रभृतीनीष्टमष्टानि स्वद्नान्यहो ।। कान्तविक्रान्तसंघातयुक्तं श्रीजयमल्लकम् । अथवा-सहस्रजनसंयुक्तं मन्त्रिश्रीजयमल्लकम् ।
निमन्व्यात्याग्रहं कृत्वा पादजाहं प्रणत्य च ॥५२॥ त्रिभिविशेषकम् ।
४४-अस्मिन्नवसरे प्रतिष्ठा करणानन्तरकाले ईदृशाः । कीदृशा इत्याह
४६-पीवरौ ऊरू सक्थिनी येषां ते पावरोरवः । वामौ मनोज्ञौ अरू येषां ते वामोरवः । लक्ष्मणौ लक्ष्मीवन्तौ उरू येषां ते लक्ष्मणोरवः । लक्ष्मीवान् लक्ष्मणः श्लील इति हैमकोषः । करभवत् ऊरू येषां ते करभोरयः । अर्थयोजनात्वेवम् । पीवरोरवः ययोः श्रीनवपल्लवपार्श्वनाथ श्रीविजयदेवसूर्योः । सेवा इच्छन्ति ययोः इति पदस्य सर्वत्र संबंधात् । वामोरवो ययोः समीप उपासते । लक्ष्मणोरवः ययोः सद्गुणस्तवनात्, श्रिया लक्ष्म्या एधन्ते । करभोरवः ययोः प्रसादात् राज्यं ईशते ऐश्वर्य कुर्वन्तीत्यर्थः । कथंभूतं राज्यं ? अद्वन्द्वं संग्रामवर्जितम्। सर्वथा वैरिणां अभावात् । पुनः कथंभूतं राज्यं अत एव निलोभकरभोपमम् ।
४७-४८युग्मम्-अर्हन्तं श्रीनवपल्लवनामानं श्रीपार्श्वनाथ जिनं । चः पुनः तं श्रीविजयदेवसूरिं। पविरोर्वः वामोर्वः लक्ष्मणोर्व इत्येतेषु त्रिषु संहितशफलक्ष्मणवामादेश्चति अनौपम्येऽपि स्त्रियामूङ् करभाव इत्यत्र उरूत्तरपदादौपम्ये इचि इङ । लक्ष्मीनाम्न्या इत्यत्र अन उपधालोपिनोऽ. न्यतरस्यामिति बहुव्रीही वैकल्पिको ङोप् । सुनापान इत्यत्र रम्भानामा इत्यत्र च डाबुभाभ्यामन्यतरस्यामिति बहुव्रीही वैकल्पिके डाप्रत्ययाभाने प्रथमा बहुवचनं । कल्पिके डाप् प्रत्यये च रम्भानामा इति प्रथमाबलुवचनम् ।
४९-तदा प्रतिष्ठाकरणानन्तरकाले स्त्रिय इयत्रुवन् । इतीति किं। याः यद्गुणान् श्रीपार्श्वनाथ-श्रीविजयदेवसूरिगुणान् प्रगायन्ति ताः । शफोर्वः सांश्लिष्टसक्थियुक्ता न जायन्ते । चः पुनः कार्दचित् संहितोर्वः मिलितसक्थियुक्ता न जायन्ते । शफोर्वः संहितोर्व इत्युभयत्र संहित. शफलक्ष्मणवामादेश्चेति ऊ: प्रत्ययः । शफशब्दः श्लिष्टपर्यायः ।
Aho I Shrutgyanam