________________
सर्गः ] विजयदेवसूरि-माहात्म्यम्
९१ विचिन्त्यैवमुभावेतौ श्रीमडुङ्गरभाषरौ । भ्रातरौ संघसंयुक्ताबाहातुं तमगच्छताम् ॥२८॥ प्रणम्य चरणौ मूरेः पुरस्तादुपविश्य च । अवक्ता व्यक्तवद् व्यक्तवाचया तो गुरुत्तमम् ॥२९॥ नवपल्लवपाहिमतिमा प्रतितिष्ठतात् । स्वच्छेन विधिनातुच्छगच्छेशागच्छ सत्वरम् ॥३०॥ श्रीसंघ सूरिरपाक्षीत् वींझेवापुरवासिनम् । ततो विगतसन्तापः सन्तापं चेतसो हरन् ॥३१॥ भवन्मनोरथः पूर्णश्चतुर्मासीविधानतः । अथ स्याबदाज्ञा चेत् प्रतिष्ठै पल्लिका प्रति ॥३२॥ मामाह्वयत एतौ यत् श्रीमढुंगरभाषरौ । भ्रातरौ श्रीप्रतिष्ठायै श्रीपल्लीसंघसंयुतौ ॥३३॥ अवोचच्च ततः श्रीमद्वींझेवासंघ आहतः । आह्वास्यतां न योती नाऽचालयिष्यमन्यथा ॥३४॥ प्रतिष्ठाया महान् लाभः प्रतिषेधानि तं कथम् । अतः सूरे प्रतिष्टस्त्र प्रतिमा प्रतितिष्ठ च ॥३५॥ अचलत्स चलत्कल्पवृक्षकल्पो द्यकल्पधीः। संकल्पपूरणायैव तयोर्नान्यात्र कल्पना ॥३६॥ मूरिः प्रामोत् पुरी पल्ली सदातोद्यध्वनिर्दिवम् । यशस्तस्य च सज्ज्योतिरिव विश्व विवस्वतः।। अथाकारयतामन्यान्नागरान्नगरादितः । तौ सन्तौ च सतः श्राद्धान् ग्रामीणानपि चादरात् ।। चतुर्दिग्भ्यः समाजग्मुः श्रावका जलदा इव । दातुं लातुं च साराणि नीराणि सुयशांसि च ॥ पोडशस्य शतस्याथ षडशीतितमेऽब्दके । वैशाखशुक्लपक्षस्य सुमुहूर्ते दिनेऽष्टमे ॥४०॥ प्रत्यतिष्ठद्वरिष्ठात्मा श्रेष्ठेन विधिना गुरुः । नवपल्लवपार्थाऽहत्पतिमा प्रतिमानिमाम् ॥४१॥ अस्मिन्नवसरे मन्त्री जयमल्लः समागमत् । सौधर्मेन्द्र इव द्रष्टुं प्रतिष्ठां तौ च वन्दितुम्॥४२॥ प्रतिष्ठा-प्रतिमा-चैत्यं निरीक्ष्येति च सोऽवदत् । अधिकाधिकमाहात्म्यं समकारयतामिमौ ।।
२९-अवक्तां-वच् परिभाषणे इत्यस्य अनद्यतने लडोति लङि, प्रथमपुरुषद्विवचनं व्यक्तवत पण्डितवत् , व्यक्तवाचया स्पष्टभाषया । अत्र वाचाशब्दः हलन्ताद्वेति वैकल्पिके दापि टावन्तः । 'वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयो: । आ पञ्चैव हसान्तानां यथा वाचा निशा दिशा।। इति वचनात् ।
३०-प्रतितिष्ठतात् आशिपि लोटो मध्यमपुरुषस्य तुझोस्तातडाशिष्यऽन्यतरस्यामिति हि स्थाने वैकल्पिके तातड्. इत्यादेशे रूपम् ।
३६-सः श्रीविजयदेवसरिः अचलन् । किरिशिष्टः ? तयोःडुंगरभाषरयोभ्रात्रोः संकल्पपूरणायैव मनोरथसिद्धये एव चलत्कल्पवृक्षकल्लः जजमझल्पवृक्षस मानः । कथंभूतः द्युकल्पधीः दिवससमानयुद्धिः ।
३९-श्रावकाः आजग्मुः। किं कर्तुं ? साराणि द्रयाणि दातुं, लोकेभ्य इति गम्यते । पुनः किं कर्तुं ? सुयशांसि लातुं । के इव ? जलदा इव । किं कर्तुं ? नीराणि दातुं । चः पुनः सुयशांसि लातुं । मेघाः सर्वतो दिशः सम्यग् ववर्षुरिति सुयशांसि लातुमिति पदं युक्तम् ।
४३-प्रतिष्ठाप्रतिमाचैत्यमित्यत्र समाहारद्वन्द्वत्वादेकवचनम् ।
Ahol Shrutgyanam